सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 499, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 499

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७३
इदानीं जातस्याज्ञाविचारः क्रियते-आज्ञास्थानाधिप इति । आज्ञास्थानाधिपे=लग्ना-
दशमभावेशे, सौम्ये = शुभग्रहे सति वा तस्मिन् शुभग्रहेण युक्ते वाऽवलोकिते सति, अपि
वा दशमेशे, शोभनांशगते = शुभग्रहनवांशे गतवति जातस्तु आज्ञाधरः = शासनकृत्
भवति । "अववादस्तु निर्देशो निदेशः शासनं च सः । शिष्टिश्चाज्ञा च" इत्यमरः ।
आज्ञाधिपे = लग्नाद्दशमेशे, मन्दयुते = शनिना सहिते, रन्ध्रनाथेन = लग्नादष्टमेशेन,
वीक्षिते = अवलोकिते, क्रूरांशे = पापनवांशे वा केन्द्रराशौ व्यवस्थिते सति स जातः
क्रूराज्ञां = गर्हितस्यादेशं, प्रकरोति = पालयति ॥ ५६-६० ॥
दशमेश शुभग्रह हो शुभग्रहसे युक्त हो वा शुभग्रह उसको देखते हों, वा शुभांशमें
प्राप्त हो तो जातक आज्ञा देने वाला होवे ॥ ५९ ॥
दशमेश शनिसे युक्त हो, अष्टमेश उसको देखता हो क्रूरांश वा केन्द्र राशिमें हो तो
वह क्रूर हुकूमत करता है ॥ ६० ॥
अथ कीर्ति-मान-कृषि-व्यापार-निद्राविचारः ।
कर्कटस्थे निशानाथे गुरुशुक्रनिरीक्षिते ।
पारावतादिभागस्थे सत्कीर्तिर्धनवान् भवेत् ॥ ६१ ॥
कर्कटस्थ इति । निशानाथे = चन्द्रे, कर्कटस्थे = स्वगृहं गते, गुरुशुक्राभ्यां निरीक्षिते
तथा पारावतप्रभृति-वैशेषिकांशे गतवति जातः सत्कीर्त्तिः = पारमार्थिककृत्यकृत्, धन-
वांश्च भवेत् ॥ ६१ ॥
चन्द्रमा कर्क राशिमें हो उसको बृहस्पति और शुक्र देखते हों, तथा चन्द्रमा अपने
पारावतादि भागमें हो तो जातक सत्कीर्ति वाला धनी हो ॥ ६१ ॥
मानेशे शुभसंयुक्ते शुभमध्यगतेऽपि वा ।
शुभग्रहांशके वाऽपि कीर्तिमानभिमानवान् ॥ ६२ ॥
मानेश इति । स्पष्टार्थः ॥ ६२ ॥
दशमेश शुभग्रहसे युक्त हो वा शुभग्रहके बीचमें हो वा शुभग्रहके अंशमें हो तो कीर्ति-
मान् और अभिमानी जातक हो ॥ ६२ ॥
पापेक्षते कर्मणि पापयुक्ते मानाधिपे हीनबलोपयाते ।
जातोऽपवादी विगताभिमानः स्वकर्मतेजोबलकीर्तिहीनः ॥ ६३ ॥
पापेक्षित इति । कर्मणि = लग्नाद्दशमे भावे पापेक्षिते = पापग्रहेणावलोकिते, वा
पापयुक्ते, मानाधिपे = दशमेशे, हीनबलोपयाते = यत्र कुत्रापि दौर्बल्यमुपगते सति जातो
नरः अपवादी = कलङ्कयुतः, विगताभिमानः = मानहीनः, स्वकर्मणा, तेजसः, बलेन, कीर्त्या
च हीनोऽपि भवति ॥ ६३ ॥
दशवें भावमें बलरहित दशमेश हो उस पर पापग्रहकी दृष्टि हो वह पापग्रहसे
युक्त हो तो जातक अपवादी हो, अभिमान रहित हो और अपने कर्मसे, तेजसे, बलसे,
कीर्तिसे हीन होवे ॥ ६३ ॥
कर्मेशतन्नवांशेशौ शनिसम्बन्धसंयुतौ । षष्ठाधिपयुतौ दृष्टौ बहुदारान्वितो भवेत् ॥
अथ बहुदारयोगः-कर्मेशेति । कर्मेशतन्नवांशेशौ = दशमेशः तन्नवांशपतिश्चैतौ द्वौ
शनिसम्बन्धसंयुतौ = शनैश्चरस्य सम्बन्धिनौ ( शनिना दृष्टौ, वा युतौ, शनिराशिगतौ, वा
शनिमित्रग्रहौ ) भवेतां तथा, षष्ठाधिपेक्षितयुतौ = षष्ठेशेन दृष्टौ वा युतौ भवेतां तदा जातो
जनो बहुदारान्वितः = त्र्यधिकस्त्रीयुतो भवेत् ॥ ६४ ॥
दशमेश और उसका नवांशेश दोनों शनिके सम्बन्धी हों और षष्ठेशसे युक्त दृष्ट हों तो
बहुत स्त्री वाला हो ॥ ६४ ॥