जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 500, कुल 588 में से
संदर्भ में पढ़ें४७४ सटीकजातपारिजाते-
भूसूनुक्षितिराशिपौ च बलिनौ केन्द्रत्रिकोणायगौ
कर्मेशो भृगुचन्द्रवीक्षितयुते कृष्यादिगोवित्तवान् ।
सम्बन्धी यदि कर्मणः शशिसुतो वाणिज्यशीलः सदा
सौम्यासौम्ययुते तु सात्त्विकतमोनिद्री विमिश्रेऽन्यथा ॥ ६५ ॥
इदानीं कृषिगोधनानां, वाणिज्यस्य, निद्रायाश्च विचारमाह—भूसूनुक्षितीति । भूसूनु-
क्षितिराशिपौ = भौमश्चतुर्थभावपतिश्चैतौ द्वौ च बलिनौ भूत्वा केन्द्रत्रिकोणायगौ ( १।४।७।
१०, ५।९।११ एतदन्यतमगतौ ) भवेताम्, तथा कर्मेशे = दशमेशग्रहे भृगुचन्द्राभ्यां वीक्षि-
ते = दृष्टे, वा युते = सहिते सति जातः कृष्यादिगोवित्तवान् = कृषि-गो-धनयुक्तो भवेत् ।
वाणिज्यमाह—सम्बन्धीति । शशिसुतः = बुधः यदि कर्मणः = दशमभावस्य
सम्बन्धी = सम्बन्धचतुष्टयेष्वन्यतमसम्बन्धवान् भवेत् तदा जातः सदा वाणिज्यशीलः =
व्यापारकृत् स्यात् ।
निद्रामाह—सौम्यासौम्येति । दशमे भावे सौम्यासौम्ययुते = शुभपापसहिते क्रमेण
सात्त्विकतमोनिद्री भवेत् । यथा दशमे शुभग्रहयुते सात्त्विकनिद्री ( विहितनिद्रावान् ) योगीव,
दशमे पापग्रहयुते तमोनिद्री ( गर्हितनिद्रायुतः, रोगीव ) भवेत् । विमिश्रे = दशमे शुभ-
पापाभ्यां सहिते सति अन्यथा = रजोनिद्री ( भोगीव ) भवेदिति ॥ ६५ ॥
मङ्गल और चतुर्थेश बली होकर १।४।७।१०।५।९।११ भावोंमें किसी भावमें हों और
कर्मेश शुक्र तथा चन्द्रमासे दृष्ट या युत हों तो जातक कृषि और गो-धनवाला हो । यदि
बुध १० वें भावका सम्बन्धी हो तो सदा व्यापार करनेवाला हो । यदि १० वां भाव शुभ
ग्रहसे युत हो तो सात्त्विक निद्रावाला तथा पापग्रहसे युत हो तो तमो निद्रावाला एवं
मिश्र ( शुभ और पाप ) ग्रहसे युत होने पर मिश्र फल कहना चाहिये ॥ ६५ ॥
इति दशमभावविचारः ।
—०००००००—
अथ लाभभावफलम् ।
अथाधुना लाभभावफलविचारः प्रारब्धः । तत्रादौ लाभभावे विचारणीयकथनपूर्वकं
तत्र सूर्यादिग्रहस्थितिवशाल्लाभमाह-
लाभस्थानेन लग्नादखिलधनचयप्राप्तिमिच्छन्ति सर्वे
लाभस्थानोपयातः सकलबलयुतः खेचरो वित्तदः स्यात् ।
भानुश्चेज्ज्ञातिवर्गादितिधनमुडुपो मातृवर्गेण भौमः
स्वोत्थाच्चान्द्रियदीप्तप्रसुविबुधसुहृन्मातुलैर्वित्तमेति ॥ ६६ ॥
जीवो यच्छति वेदशास्त्रयजनाचारादिपुत्रैर्धनं
शुक्रः स्त्रीजनकाव्यनाटककलासङ्गीतविद्यादिभिः ।
दासीदासकृषिक्रियार्जितधनं धान्यं समृद्धं शनि-
र्विप्रादिद्युचरेण वीक्षितयुते विप्रादयो वित्तदाः ॥ ६७ ॥
लाभस्थानेनेति । लग्नात् लाभस्थानेन = एकादशभावेन अखिलधनचयप्राप्तिं = सर्वे-
षामेव धनानां चयं = वृद्धिं, प्राप्तिं = लाभं च सर्वे होराशास्त्रविद इच्छन्ति । निखिलधन-
वृद्धिलाभमेकादशभावतो विचारयेदिति भावः ।
यः कोऽपि ग्रहः सकलबलयुतः = पूर्णबलवान् सन् लाभस्थानोपयातः = एकादशभा-
वमुपगतः स्यादासौ वित्तदः = धनलाभकरः स्यात् ।
अथैकादशे ग्रहस्थितिपरत्वेन धनलाभमूलमाह—भानुरिति । सूर्यश्चेद्यदि लाभ-