जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 498, कुल 588 में से
संदर्भ में पढ़ें४७२ सटीकजातकपारिजाते-
जीवे शुक्रयुते तु विप्रजनपो भूपप्रियः पण्डितः
सार्कौ सर्वजनोपतापचतुरो जातः स्थिरारम्भधीः ॥ ५७ ॥
सुगन्धनीलचूर्णादिचित्रकारो भिषग्वणिक् ।
कर्मस्थानगते मन्दे सासुरेज्ये निशाकरात् ॥ ५८ ॥
इदानीं शशिनो दशमे भौमादिद्विग्रहफलान्याह-चन्द्रादिति । बुधयुते भूसुते = मङ्गले,
चन्द्रात्, कर्मणि = दशमगते सति जातः, शास्त्रोपजीवी = शास्त्राणां पठनपाठनादिना
जीविकावान् भवेत् । यथाऽऽधुनिकाः पण्डितंमन्याः । सेज्ये = गुरुणा युक्ते भौमे चन्द्राद्दशमे
सति नीचजनानाम् ( अशिक्षितानां शूद्रादीनाम् ) अधिपः स्यात् । सभृगुजे = शुक्रसहिते
भौमे तथा भूते सति वैदेशिकः = दूरदेशप्रवासी, वणिक् = व्यापारकृत् स्यात् । सार्कौ =
शनिना सहिते सति साहसिकः =