जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 462, कुल 588 में से
संदर्भ में पढ़ें४३६ सटीकजातकपारिजाते-
अथालपायुराह—विवला इति । एत एव तथा भूता ग्रहाः भानुतनयाः = सूर्यपुत्रेण
( शनिना ) सहिताः यदि विबलाः = निर्बला भवेयुस्तदा अल्पमायुर्वदेत् । तदानीं जातो-
ऽल्पायुर्भवेदिति ॥ ४९ ॥
अष्टमेश अपने स्थानमें हो तो दीर्घायु हो । लग्नेश और अष्टमेश दोनों छठे भावमें हों
या द्वादशमें हों तो जातक दीर्घायु होवे। दशम, लग्न और अष्टमके स्वामी केन्द्र, त्रिकोण या
एकादश भावमें प्राप्त हों तो दीर्घायु हो । यदि वे शनिके साथ हों तो अल्पायु कहे ॥ ४९ ॥
कर्मेशारन्ध्रतनुपा बलशालिनश्चेज्जातश्चिरायुरिननन्दनयोगहीनाः ।
द्वावप्यतीव बलिनौ यदि मध्यमायुरेको बली लघुतदायुरनायुरन्यः ॥ ५० ॥
इदानीं दीर्घ-मध्य-लघु-हीनायुर्योगानाह—कर्मेशेति ।
चिरायुः—कर्मेशारन्ध्रतनुपाः = दशमेशाष्टमेशलग्नेशाश्चेद्यदि बलशालिनः = पूर्णबलाः
( त्रयोऽपि ) भवेयुस्तथा इननन्दनयोगहीनाः = शनैश्चरयोगरहिताश्च भवेयुस्तदा जातश्चिरायुः=
दीर्घजीवी स्यात् । अत्र पूर्णबला अपि शनियोगसहिता न तावद्दीर्घायुष्कराः स्युरिति ज्ञेयम् ।
मध्यायुः—यदि तेषु ( कर्मेशाष्टमेशलग्नेशेषु ) द्वावपि कौचिदतीव बलिनौ भवेताम्
तदा मध्यमायुः स्यात् ।
अल्पायुः—यदि तेषु त्रिषु कश्चिदेको बली भवेत् तदा लघुतदायुः = अतिलघ्वायुः =
अल्पायुर्भवेत् ।
हीनायुः—अन्यः अनायुर्थात् तेषु न कश्चिदपि बली स्यात् अत्युत लग्नेशाष्टमेशदश-
मेशाः निर्बला भवेयुस्तदा अनायुः = हीनायुः भवेदिति ॥ ५० ॥
दशमेश, अष्टमेश, लग्नेश बली हों और शनिका योग न हो तो जातक चिरायु होता
है। इनमें दो यदि अत्यन्त बली हों तो मध्यमायु हो । एक बली हो तो अल्पायु हो यदि
तीनोंमें कोई बली नहीं हो तो आयु नहीं होती है ॥ ५० ॥
रन्ध्राधिपे पापगृहोपयाते दुःस्थानगे पापयुतेऽल्पमायुः ।
शुभान्विते शोभनराशियुक्ते शुभेक्षिते रन्ध्रगते चिरायुः ॥ ५१ ॥
इदानीमल्पायुश्चिरायुर्योगमाह—रन्ध्राधिप इति स्पष्टार्थ एवेत्यलम् ॥ ५१ ॥
अष्टमेश पापगृहमें प्राप्त हो दुष्ट स्थानमें पापग्रह युत हो तो अल्पायु होवे । वही यदि
शुभग्रह से युक्त शुभराशिमें हो या शुभदृष्ट अष्टममें प्राप्त हो तो चिरायु होवे ॥ ५१ ॥
नाशस्थे तनुपेऽथवा निधनपे पापेन युक्तेक्षिते
मूढेऽदृश्यगतेऽथवा रिपुगृहे जातो गतायुर्भवेत् ।
दीर्घायुर्निजतुङ्गगे शुभयुते केन्द्रत्रिकोणोऽथवा
रन्ध्रे रन्ध्रपतौ चिरायुरुदयं यातो विलग्नाधिपे ॥ ५२ ॥
नाशस्थ इति । तनुपे = लग्नेशे, अथवा निधनपे = अष्टमेशे, नाशस्थे = अष्टमभाव-
गते, केनचित् पापेन युक्तेक्षिते = सहिते वा दृष्टे, मूढेऽदृश्यगते=सूर्येण सहादृश्यकालांशान्त-
र्गते परमास्तं गत इत्यर्थः, अथवा रिपुगृहे = षष्ठभावगते सति जातः गतायुः = आयू-
रहितः भवेन्न जीवेदित्यर्थः ।
अथ चिरायुः—तस्मिन्नेव तनुपेऽथवा निधनपे शुभयुते निजतुङ्गगे = स्वकीयोच्चंगते
केन्द्रत्रिकोणौ वा गतवति चिरायुः स्यात् । अथवा रन्ध्रपतौ, रन्ध्रे = अष्टमे, विलग्नाधिपे=
लग्नेशे, उदयं याते = लग्नं गते जातश्चिरायुर्भवेदिति ॥ ५२ ॥
लग्नेश अष्टममें हो वा अष्टमेश पापग्रहसे युक्त या दृष्ट होकर अस्तं गत हो अथवा शत्रु-
गृहमें हो तो जातक आयु रहित हो । अष्टमेश अपनी उच्चराशिमें शुभग्रहयुत हो, केन्द्रत्रि-
कोणमें हो तो दीर्घायु हो । अथवा अष्टमेश ८ वें हो लग्नेश लग्नमें हो तो जातक चिरायु
होवे ॥ ५२ ॥