जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 461, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४३५
योग या दृष्टि नहीं हो तो स्त्री पतिके साथ मरे । सप्तम भावसे छिद्र ग्रहकी दशा प्राप्त
होने पर शुक्रके अष्टवर्गोक्त राशिमें शनि हो और उसके नवांशमें जब गुरु हो तब स्त्रीकी
मृत्यु कहे ॥ ४६ ॥
तद्दनभवननाथे पारिजातादिवर्गे सुरगुरुयुतदृष्टे शोभनस्थानयाते ।
दधिमधुघृतसूपक्षीरपक्कोपदेशैः सह शुचि रुचिरान्नं चारुकान्तामुपैति ॥ ४७ ॥
स्पष्टार्थः ॥ ४७ ॥
इति सप्तमभावविचारः ।
सप्तमेश अपने पारिजातादि वर्गमें हो, गुरुसे युक्त या दृष्ट हो, शुभ स्थानमें हो तो
दधि-मधु-घी-दाल-दूध पक्व पदार्थोंके साथ सुन्दर अन्नका भोजन और रमणीय स्त्री प्राप्त
होती है ॥ ४७ ॥
अथाष्टमभावफलम् ।
अथाधुनाऽष्टमभावफलानि विवक्षुरादौ तत्र विचारणीयकथनपूर्वक मल्पायुर्योगद्वयमाह—
आयुर्दायमनिष्टहेतुमुदयव्योमायुरीशार्कजै-
रुक्तं तत्सकलं तथापि निधनप्राप्तिं प्रवक्ष्ये पुनः ।
अल्पायुर्व्ययगोऽथवा रिपुगते पापान्विते रन्ध्रपे
लग्नेशेन युते तु तत्र विबले जातोऽल्पजीवी नरः ॥ ४८ ॥
आयुर्दायमिति । उदयव्योमायुरीशार्कजैः = लग्नेश-दशमेशा-ष्टमेश-शनैश्चरैः, जा-
तस्यायुर्दायम् , अनिष्टहेतुं = मरणकारणं च विचारयेदिति सकलं पूर्वमुक्तम् ( आयुर्दाया-
ध्यायेऽरिष्टाध्याये ) तथापि पुनः निधनप्राप्तिं प्रवक्ष्ये । अत्राष्टमेशाष्टमभावाभ्यामायु र्विचारो
निधनविचारश्च कार्य इति तात्पर्यम् ।
अल्पायुरिति । पापान्विते=पापग्रहेण सहिते रन्ध्रपे = अष्टमभावपतौ व्ययगे = द्वादशे,
अथवा रिपुगते = षष्ठमुपगते जातः अल्पायुर्भवेत् । अथ तत्र = रन्ध्रपे तथाभूते विबले लग्ने-
शेन युते च जातो नरः अल्पजीवी भवेदिति ।
Notes—यस्य भावस्याधिपतिः षडष्टव्ययगतो भवति तस्य भावस्य हानिरिति
सामान्यो नियमस्तेनाष्टमभावादायुषो विचारस्य सद्भावादष्टमेशे षष्ठे व्यये वा गतेऽल्पायुर्बुद्ध-
मिति किं चित्रम् ॥ ४८ ॥
लग्न दशम और अष्टमके स्वामी और शनिसे आयुर्दाय तथा अनिष्टका कारण पहले
कहा है, तथापि फिर अष्टमभाव प्रसङ्गसे सब कहते हैं । अष्टमेश द्वादश वा षष्ठ भावमें
पापग्रहसे युक्त होतो जातक अल्पायु होवे । वहीं ( १२।६ ) पर यदि अष्टमेश बलहीन तथा
लग्नेशके साथ हो तो जातक अल्पजीवी होवे ॥ ४८ ॥
स्वस्थे रन्ध्रपतौ चिरायुरुदयच्छिद्राधिपौ षष्ठगौ
रिष्फस्थौ यदि वा समेति मनुजो जातश्चिरायुर्बलम् ।
व्यापारोदय रन्ध्रराशिपतयः केन्द्रत्रिकोणायगा
दीर्घायुर्विबलाः सभानुतनया यद्यल्पमायुर्वदेत् ॥ ४९ ॥
अधुना दीर्घायुर्योगानाह—स्वस्थ इति । रन्ध्रपतौ = अष्टमेशे स्वस्थ्ये = स्वराशिस्थे
( अत्र सूर्यचन्द्रान्यतरस्याष्टमेशत्वे सति स्वस्थ्ये = अष्टमस्थे इत्येवमेव ) जातश्चिरायुः =
दीर्घजीवी स्यात् ।
उदयच्छिद्राधिपौ = लग्नेशाष्टमेशौ, षष्ठगौ, वा रिष्फस्थौ = द्वादशगतौ यदि स्याताम्
तदा जातः मनुजः चिरायुर्बलं समेति = दीर्घजीवी भवतीति ।
व्यापारोदय रन्ध्रराशिपतयः = दशमेश-लग्नेशा-ष्टमेशाः यथासम्भवं केन्द्रत्रिकोणाय-
( १।४।७।१०।५।९।११ ) गाः भवेयुस्तदा जातो दीर्घायुः स्यात् ।