जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 463, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ।।१४।। ४३७
लग्नादन्त्यगृहाधिपे बलवति स्वर्क्षे चिरायुः सुखी
लग्नेशो यदि रन्ध्रपश्च बलिनौ केन्द्रस्थितौ चेत्तथा ।
आधानोदयराशितोऽष्टमगृहान्मेषूरणं जन्मभं
शुक्रज्ञामरवन्दितेक्षितयुतं यद्यायुरारोग्यभाक् ॥ ५३ ॥
लग्नादिति । लग्नादन्त्यगृहाधिपे = द्वादशभावपतौ बलवति स्वर्क्षे च गतवति जातः
चिरायुः सुखी च भवेत् । लग्नेशः, रन्ध्रपः = अष्टमेशश्चैतौ यदि बलिनौ केन्द्रस्थितौ च
भवेताम् तदा तथा = चिरायुः सुखी च भवेदिति ।
आधानोदयराशितः = गर्भाधानकालीनलग्नात्, वा अष्टमगृहात्=जन्मकालीनाष्टमभावात्
मेषूरणं=दशमभावः, अथवा जन्मभं = जन्मकालीनचन्द्रराशिः यदि शुक्रज्ञामरवन्दितेक्षितयुतं=
शुक्रबुधजीवान्यतमेन दृष्टः युतो वा स्यात् तदा आयुष्मान्, आरोग्यश्च भवेदिति ॥ ५३ ॥
लग्नसे द्वादशका स्वामी अपनी राशिमें बलवान् हो तो जातक चिरायु और सुखी
होवे । यदि लग्नेश और अष्टमेश बली हों, केन्द्रमें हों तो भी वही फल हो । यदि गर्भा-
धानकी लग्नराशिके अष्टम गृहसे दशवीं राशि, या जन्मलग्न शुक्र-बुध-बृहस्पतिसे दृष्ट
या युत हो तो जातक आयुष्मान् और आरोग्य हो ॥ ५३ ॥
अथ मृत्युविचारः ।
रन्ध्रेशे रिपुरन्ध्ररिष्फगृहगे तत्पाकभुक्तौ मृतिं
मन्दाक्रान्तगृहेशपाकसमये रन्ध्रेशभुक्तौ तथा ॥
पाके रन्ध्रगृहाधिपस्य तदनुक्रान्तस्य भुक्तौ तु वा
खेटानां बलदुर्बलेन सकलं संचिन्त्य यत्तद्वदेत् ॥ ५४ ॥
अधुना मृत्युविचारः क्रियते—रन्ध्रेश इति ।
१. अष्टमभावपतौ रिपुरन्ध्ररिष्फगृहगे = षष्ठाष्टमद्वादशान्यतमभावगते सति तत्पाक-
भुक्तौ = अष्टमेशदशान्तर्दशाकाले मृतिं = जातकस्य मरणं वदेत् ।
२. मन्दाक्रान्तगृहेशपाकसमये = जन्मकाले शनिर्यस्मिन् राशौ भवेत्तद्राशीशग्रह-
दशायाम्, रन्ध्रेशभुक्तौ = अष्टमेशान्तर्दशाकाले, तथा = जातस्य मृतिं वदेदिति ।
३. अथवा रन्ध्रगृहाधिपस्य = अष्टमभावपतेः, पाके = दशायाम्, तदनुकान्तस्य =
अष्टमभावपतेः सङ्गतस्य ग्रहस्य, भुक्तौ = अन्तर्दशाकाले जातस्य मृतिं वदेत् ।
अत्रोक्तयोगत्रये खेटानां = मरणयोगकर्तृग्रहाणां बलदुर्बलेन (बलाबलविचारणपूर्वकम् )
सकलं, संचिन्त्य = विविच्य, यत् = यद्ग्रहदशायां सम्भवः स्यात्तद्ग्रहदशान्तर्दशाकाले
तन्मरणं वदेदिति ॥ ५४ ॥
अष्टमेश, षष्ठ, अष्टम, द्वादश गृहमें हो तो उसकी दशामुक्तिमें मृत्यु हो। शनि जिस
गृहमें हो उस गृहके स्वामीकी दशामें रन्ध्रेशकी भुक्ति (अन्तर्दशा) में मृत्यु हो । वा
अष्टमेश की दशामें अष्टमस्थ ग्रहकी अन्तर्दशामें मृत्यु हो। यहां ग्रहोंके बलाबलसे सब
विचार कर फल कहे ॥ ५४ ॥
लग्नेशे निधनारिरिष्फगृहगे साहौ सकेतौ तु वा
होरारन्ध्रपसंयुक्तग्रहदशा जातस्य मृत्युप्रदा ॥
तत्खेटान्वितराशिनायकदशा नाशप्रदा देहिनां
खेटानां प्रथमागतस्य फणिनः पाकापहारे क्रमात् ॥ ५५ ॥
लग्नेश इति । साहौ = राहुणा सहिते, वा सकेतौ = केतुयुक्ते लग्नेशे निधनारि-
रिष्फगृहगे = अष्टम-षष्ठ-व्ययान्यतमभावमुपगते सति होरारन्ध्रपसंयुक्तग्रहदशा = लग्नेशा-
ष्टमेशान्यतरेण सहितस्य ग्रहस्य दशा जातस्य मृत्युप्रदा भवति ।