सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 191, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 191

जातकभङ्गाध्यायः ॥ ६ ॥ १६५
अमरगुरौ = बृहस्पतौ मन्दाराहिसमन्विते = शनिभौमराहुभिर्युक्ते शुक्रेन्दुपुत्रेक्षिते =
शुक्रबुधाभ्यामवलोकिते च जातः शूद्रकलेवरोऽपि=शूद्रजातिरपि यदि भवति तथापि निखि-
लां विद्यां श्रियं = सम्पदञ्चोपैति = प्राप्नोति । तथोक्तं सर्वार्थचिन्तामणौ-
“ध्वजाहिमन्दैः सहितेन्द्रपूज्ये शुक्रेक्षिते वा शशिसूनुदृष्टे ।
शूद्रोऽपि चेद्विप्रसत्त्वमेति विद्यां च सर्वामधिगम्य जातः” इति ॥
तारानाथविकर्त्तनौ = चन्द्रसूर्यौ गदगतौ = षष्ठभावगतौ सौरेण = शनैश्चरेण वीक्षितौ च
भवेतां तदा जातोऽसौ नीचविहितोपायेन = नीचजातीनां जीवने य उपायो विहितस्तेन
( दासादिकर्मणा ) सञ्जीवनं = जीवनवृत्ति समुपैति । अर्थादस्मिन्योगे कुलीनोऽपि जातो
नीचवृत्तिको भवतीति तात्पर्यम् ॥ ३ ॥
गुरु यदि शनि, मङ्गल और राहुसे युक्त हो, शुक्र और बुधसे दृष्ट हो तो जातक शूद्र
कुलमें उत्पन्न होने पर भी सम्पूर्ण विद्या और लक्ष्मीको प्राप्त करता है ।
लग्नसे छठे स्थानमें चन्द्रमा और सूर्य हों उन्हे शनि देखता हो तो वह जातक नीच
कर्मके द्वारा जीविका पावे ॥ ३ ॥
केन्द्रस्थे वा विलग्ने दिनकरतनये सौम्यखेटैरदृष्टे
भूसूनोः कालहोरासमयजमनुजो भिक्षुको दासभूतः ॥
सौम्यादृष्टेऽर्किदृष्टे शशिनि सरुधिरे मेषगे भिक्षुकः स्या-
दर्कीन्द्वर्कैः सकेन्द्रैर्जडतनुरधनश्चान्यभुक्ताशनः स्यात् ॥ ४ ॥
दिनकरतनये = शनैश्चरे केन्द्र-( १।४।७।१० ) स्थे वा विलग्ने = लग्नगते, सौम्य-
खेटैः = शुभग्रहैरदृष्टे = अनवलोकिते तथा भूसुनोर्भौमस्य कालहोरासमये जातो मनुजो भिक्षुको
याचको, दासभूतोऽन्यस्य भृत्यश्च भवति । अथ सरुधिरे=भौमसहिते शशिनि=चन्द्रे मेषराशि-
गते सौम्यैः = शुभैरदृष्टे, अर्किणा = शनिना दृष्टे च जातो भिक्षुकः स्यात् । अत्र सर्वार्थ-
चिन्तामणौ- मेषे शशांके रविसूनुदृष्टे भिक्षाशनो भूमिसुतेन दृष्टे ।
निःश्रीर्विलग्नस्य निशाकरस्य लुब्धो दिनेशात्मजदृष्टियोगात् ॥
शुभग्रहाणामवलोकनेन हीनाद्भवैदत्र समन्विताद्वा ।
तत्कालहोराधिपतौ धराजे केन्द्रे शनौ चेद्यदि वा विलग्ने ।
शुभग्रहाणामवलोकहीने दासस्तु भिक्षाशनदेहशीलः ॥ इति ॥
अर्कीन्द्वर्कैः=शनिचन्द्रसूर्यैः सकेन्द्रैः = केन्द्र-( १।४।७।१० ) गतैः जातो नरो जड-
तनुः = प्रज्ञाहीनशरीरः, अधनः = निर्धनः, अन्यभुक्ताशनः=परोच्छिष्टभोजी च भवति ।
अत्र प्रसङ्गात् कालहोराज्ञानप्रकारः-
वाराद्द्यर्घटिकाद्विघ्ना स्वाङ्कहच्छेषवर्जिता । सैका तत्ता नगैः कालहोरेशा दिनपात् क्रमात् ॥४॥
शनि केन्द्रमें वा लग्नमें हो, उसको शुभग्रह न देखते हों तथा मङ्गलकी कालहोरामें
उत्पन्न हो तो मनुष्य भिक्षुक तथा दास होता है । चन्द्रमा मङ्गलके साथ मेष राशिमें हो
उसको शुभ ग्रह न देखता हो और शनि देखता हो तो भिक्षुक होता है। केन्द्र में शनि,
चन्द्र और सूर्य हों तो जड़ शरीर हो, दरिद्र हो, दूसरेका जूठा खानेवाला हो ॥ ४ ॥
मन्दे केन्द्रगते विलग्नगृहगे चन्द्रेऽन्यभे वाक्पतौ
जातो भिक्षुक एव शोकजलधौ मग्नो विदेशं गतः ॥
धर्मस्थानपतौ तु रिःफगृहगे पापग्रहे केन्द्रगे