सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 190, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 190

अथ जातकभङ्गाध्यायः ॥ ६ ॥
तत्रादौ जातकभङ्गपरिभाषा ।
केचिद् योगा राजयोगस्य भङ्गाः केचिद्रेका नाम दारिद्र्ययोगाः ॥
केचित्प्रेष्याः के च केमद्रुमाख्यास्ते चत्वारो जातभङ्गाकराः स्युः ॥ १ ॥
अथातो जातकभङ्गाध्यायो व्याख्यायते । तत्र को नाम जातकभङ्ग इत्युच्यते ।
केचिदिति । राजयोगस्य = यस्मिन् योगे जातो राजा भवति तस्य राजयोगस्य भङ्गाः = नाश-
काः केचिद्योगाः ( मेषे जूकनवांशक इत्यादिवक्ष्यमाणाः ) केचिद्रेका नाम दारिद्र्ययोगाः
( लग्नेशे बलवर्जिते इत्यादिवक्ष्यमाणाः ) केचित्प्रेष्या योगाः (माने रवावित्यादिवक्ष्यमाणाः)
के च केमद्रुमयोगाः ( लग्नस्थिते हिमकरे इत्यादिवक्ष्यमाणाः ) इत्येते चत्वारो जातभङ्गा-
काराः स्युरिति । एषां चतुर्णां मध्ये कश्चिदेको योगो यस्य जन्मकाले भवति तस्य जीवनं
व्यर्थमिवेति भावः ॥ १ ॥
कितने राजयोगके नाशक योग, कितने रेका नामक दरिद्रयोग, कितने प्रेष्ययोग,
कितने केमद्रुमयोग ये चार प्रकारके जातकभङ्ग ( शुभ योग नाशक ) कहे गये हैं ।
( सु० शा० कारः ) ॥ १ ॥
राजभङ्गाः ।
मेषे जूकनवांशके दिनकरे पापेक्षिते निर्धनः
कन्याराशिंगते यदा भृगुसुते कन्यांशके भिक्षुकः ॥
नीचर्क्षे त्वतिनीचभागसहिते जातो दिवानायके
राजश्रेष्ठकुलाग्रजोऽपि विगतश्रीपुत्रदाराशनः ॥ २ ॥
यस्मिन्योगे जातो राजाऽपि दुःखभागभवतीत्युच्यते । राजश्रेष्ठकुलाग्रजोऽपि = राज्ञां
श्रेष्ठकुले उत्तमकुलेऽग्रजः प्रथमजन्माऽपि, दिनकरे = सूर्ये मेषे (स्वोच्चे) राशौ जूकनवांशके =
तुलानवांशे ( मेषस्य विंशतिभागादुपरि त्रयोविंशांशे सप्तमांशे ( २०°-२३°२०' ) विद्यमाने
तस्मिन् पापग्रहेणेक्षिते च यदि जायते तदाऽसौ जातो निर्धनो भवति । एतदुक्तं भवति
राजकुले यः प्रथमः पुत्रः स राजा भवति, परन्तु तस्य जन्मकाले यदीदृशयोगो भवेत्तदा
(राज्ञो ज्येष्ठपुत्रोऽपि ) निर्धन एव भवति । एवं भृगुसुते = शुक्रे कन्याराशिंगते कन्यांशके च
विद्यमानेऽर्थात् कन्याया नवमे नवांशे ( २६°४०'-३०° ) विद्यमाने जातो भिक्षुको याचको
भवति । अथ च दिवानायके = सूर्ये नीचर्क्षे = तुलाराशौ त्वतिनीचभागसहिते = दशमेऽंशे ( ६ रा
१०°) विद्यमाने सति सः ( राजश्रेष्ठकुलाग्रजोऽपि ) विगतश्रीपुत्रदाराशनः = श्रियः सम्पदः,
पुत्रा आत्मजाः, दाराः = स्त्रियः, अशनं = भोजनं तैर्विगतो रहितो भवति । सर्वथा दुर्भाग्यो
भवतीति भावः ॥ २ ॥
यदि सूर्य मेष राशिमें तुलाके नवांशमें हो उसे पापग्रह देखते हों तो जातक निर्धन
होता है । यदि शुक्र कन्या राशिमें कन्या के ही नवांशमें हो तो भिक्षुक होता है । यदि
सूर्य नीच राशि (तुला) में अतिनीच भाग (१०) से युत हो तो जातक श्रेष्ठ राज कुलका
होनेपर भी लक्ष्मी, पुत्र, स्त्री और भोजनसे रहित होता है ॥ २ ॥
मन्दाराहिसमन्वितेऽमरगुरौ शुक्रेन्दुपुत्रेक्षिते
जातः शूद्रकलेवरोऽपि निखिलां विद्यामुपैति श्रियम् ।
तारानाथविकर्त्तनौ गदगतौ सौरेण संवीक्षितौ
जातोऽसौ समुपैति नीचविहितोपायेन सञ्जीवनम् ॥ ३ ॥