सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 150, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 150

अथ आयुर्दायाध्यायः ॥ ५ ॥
अथाधुनाऽऽयुर्दायाध्यायो व्याख्यायते । तत्र पूर्वोक्तारिष्टयोगरहितानामेव जनिमता-
मायुर्र्दायविचारः कर्त्तव्यः । समुपस्थिते चायुर्विचारे प्राक्तनैः पराशराद्यैर्निर्दिष्टान्यायूष्यत्रोच्यन्ते-
निसर्गपिँड्यांशकरश्मिचक्रनक्षत्रदायाष्टकवर्गजानि ।
पराशराद्यैः कथितानि यानि संगृह्य तानि क्रमशः प्रवच्मि ॥ १ ॥
निसर्गेति । पराशराद्यैर्मुनिभिः कथितानि यानि निसर्ग-पिण्डां-शक-रश्मि-चक्र-
नक्षत्र-दायाष्टकवर्गजानि अष्टावायूंषि तानि सङ्गृह्य क्रमशोऽहं प्रवच्मि ॥ १ ॥
पराशर आदि ने जिन निसर्गायु, पिण्डायु, लग्नायु, अंशकायु, रश्मिजायु, चक्रायु,
नक्षत्राद्यु, अष्टवर्गजायु को कहा है उन आयुर्दायोंको संग्रह करके क्रमशः कहता हूँ ॥ १ ॥
अथ निसर्गायुषो वर्षसङ्ख्या ।
नखाः शशी द्वौ नवकं धृतिश्च कृतिः खवाणा रविपूर्वकानाम् ।
इमा निरुक्ताः क्रमशो ग्रहाणां नैसर्गिके ह्यायुषि वर्षसंख्याः ॥ २ ॥
अथ नैसर्गिके सूर्यादीनां नखाद्या वर्षसङ्ख्या बोद्धव्याः । सूर्यस्य = २० वर्षाणि ।
चन्द्रस्य = १ व० । मं०=२ व । बु० = ९ । गु० = १८ । शु० = २० । श० = ५० ।
उक्तञ्च सारावल्याम्—
"विंशतिरेकं द्वितयं नव धृतिरिह विंशतिश्च पञ्चाशत् ।
वर्षाणामपि सङ्ख्याः सूर्यादीनां निसर्गभवाः” ॥ इति ।
अत्रोक्तानि निसर्गायुर्वर्षाणि ग्रहेषूच्चगतेष्विति । तत्काले च स्थितिवशेन कानिचित्
क्षीयन्ते, तेषां स्पष्टीकरणमग्रतो द्रष्टव्यमिति ॥ २ ॥
ग्रहोंकी निसर्ग आयु इस प्रकार है-२० वर्ष सूर्यकी, १ वर्ष चन्द्रमाकी, २ वर्ष मंगलकी,
९ वर्ष बुधकी, १८ वर्ष बृहस्पतिकी, २० वर्ष शुक्रकी और ५० वर्ष शनिकी आयु है ॥ २ ॥
अथ पिण्डायुषो वर्षसंख्या ।
नवेन्दवो बाणयमाः शरदमा दिवाकराः पञ्चसुवः कुपक्षाः ।
नखाश्च भास्वत्प्रमुखग्रहाणां पिण्डायुषोऽब्दा निजतुङ्गगानाम् ॥ ३ ॥
इदानीं ग्रहाणां पिण्डायुर्वर्षाण्युच्यन्ते । निजतुङ्गगानां स्वकीयोच्चगतानां भास्वत्प्रमु-
खग्रहाणां=सूर्यादीनां नवेन्दादयः पिण्डायुषोऽब्दाः पठितास्ते चानेन द्योत्यन्ते । सूर्यस्य=
१९ वर्षाणि । चं ० = २५ व ० । मं ० = १५ व ० । बु ० = १२ व ० । बृ ० = १५ व ० ।
शु ० २१ व ० । श ० = २० व ० ।
तथैव सारावल्याम्—
एकोनविंशतिर्भानोः शशिनः पञ्चविंशतिः । तिथयः क्षितिपुत्रस्य द्वादशैव बुधस्य तु ॥
गुरोः पञ्चदशाब्दानि शुक्रस्याप्येकविंशतिः । विंशती रविपुत्रस्य पिण्डायुः स्वोच्चसंस्थिते ॥
बृहज्जातकेऽपि—
"मययवनमणित्थशक्तिपूर्वैर्दिवसकरादिषु वत्सराः प्रदिष्टाः ।
नवतिथिविषयाश्विभूतरुद्रैर्दशसहिता दशभिः स्वतुङ्गभेषु” ॥ इति ।
अत्रोक्तानि वर्षाणि ग्रहाणां स्वस्वपरमायुःप्रमाणानि । एतानि किल वर्षाणि तुङ्गस्थानां
ग्रहाणां वर्त्तन्ते । तत्कालस्थितौ स्पष्टीकरणमग्नेद्रष्टव्यम् ॥ ३ ॥
उच्च राशि स्थित सूर्यादि ग्रहोंकी पिण्डायु इस प्रकार है—सूर्यकी १९ वर्ष, चन्द्रमाकी