जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
DevanagariSanskritpublished106 पृष्ठ
पृष्ठ 88, कुल 106 में से
संदर्भ में पढ़ेंपृष्ठ 88
[ ८० ] जैमिनीयब्राह्मणम् [ १.३०२ ]
'प्रजापतिर् यस्माद् योनेः प्रजा असृजत सो ऽल्वेलायद्
एव । स दीप्यमानो भ्राजमानो ऽतिष्ठत् । सो ऽवेद् अस्ति न्वा
अन्तर् इति¹ । स देवान् अब्रवीद् अस्ति वा इदम् ²अन्तर् इतस्³
सृजध्वम् इति । सो ऽग्निर् गायत्र्या स्वारण्य् असृजतेन्द्रस्
त्रिष्टुभा निधनवन्ति विश्वे देवा जगत्यैळानि प्रजापतिर् अनुष्टुभ-
र्क्समानि । तद् यद् गायत्रं स्वारम् आग्नेयं तद् देवतया यत्
त्रैष्टुभं निधनवद् ऐन्द्रं तद् देवतया यज् जागतम् ऐळं वैश्वदेवं
तद् देवतया यद् आनुष्टुभम् ऋक्समं प्राजापत्यं तद् देवतया ॥
तद् उ ह स्माहेयपिस् सौमापो न बृहद्रथन्तरे यज्ञं कल्पयतः ।
उभे वै ते अन्तर्निधने वा बहिर्निधने वा । स्वार