जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
पृष्ठ 87, कुल 106 में से
संदर्भ में पढ़ें१.२९८ ] जैमिनीयब्राह्मणम् [ ७९
बृहद्रथन्तरे वा असृज्येताम् । तद् अनु पशवो ऽसृज्यन्त ।
ये राथन्तरा आसन् रथन्तरं ते ऽन्वसृज्यन्त ये$^१$ बार्हता बृहत्
ते । ते ये राथन्तराः पशवस् त आद्या अथ ये बार्हतास् त
ऽत्तारः । तद् यद् रथन्तरस्यर्चैवापरिष्टाद्भूय प्रस्तौति तस्माद्
राथन्तराः पशवो ऽस्थिप्रतिष्ठाना आद्याः । अथ यस्माद् बृहतस्
स्तोभेन परिष्टाद्भूय प्रस्तौति तस्माद् बार्हताः पशवो मांसप्रति-
ष्ठाना अत्तारः । अत्तुर हास्य सतो बह्व् आद्यं भवत्य् आस्माद्
अत्ता वीरो जायते य एवं वेद ॥
बृहद्रथन्तरे वै मध्यतः प्रजासु गर्भान् धत्तः । तस्माद् यज्ञायज्ञी-
येनैवान्तस्ते$^२$ प्रजनयतः । तद् यद् अष्टाक्षरेण प्रथमस्या ऋचः
प्रस्तौत्य् अष्टाशफांस् ते पशून् गर्भान् धत्तः । यद् द्व्यक्षरेणो-
त्तरयोर् द्विपदस तेन । तद् यद् एवंविदो यज्ञायज्ञीयम् अन्ततः
क्रियते जन्मैव तत् । प्रैव तेन जनयति । तस्माद् यज्ञायज्ञीयस्य
स्तोत्रे वरं दद्यात् । यथा पुत्रे जाते वरं ददाति तथा । तद्धै धि
यजमानस्य जन्म । अथ या एता अपः पत्न्य् उपप्रवर्तयति या
एव तन्न वस्तेर् भिद्यमानस्यापो यन्ति ता एव ताः । अथो अन्नं वा
आपः । यद् एव जाताय्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत् ।
तद् उ वाङ्निधनं भवति । तस्माद् उ कुमारो जायमान एव
वाचम् अभिव्याहरति ॥ २९७ ॥$^५$
१ कोषेषु नास्ति ३ कोषेषु एवंविधि ५ र ॥ ५३ ॥
२ य ˚वान्तरतः इ ल व श ˚वान्तरः ४ कोषेषु यद्
बृहद्रथन्तरे वा असृज्येताम् । ते समाननिधने असृज्येताम्
अन्तर्निधने वा बहिर्निधने वा । ते अब्रूताम् आजिम् अनयोर्
निधनयोर् अयावेति । तथेति । ते आजिम् ऐताम् । तद् बृहद् उद्-
जयत् । तद् रथन्तरं हीयमानम् अमन्यत । तद् अब्रवीन् मिथुने
ऽन्ते सानुपूर्वं मे योगं प्रयच्छेति । तथेति । तद् अस्य मिथुनम्
अभवत् । तस्मा एतं पूर्वं योगं प्रायच्छद् एतं पूर्वाङ्गम् । पूर्वाङ्गो
ह वै रथन्तरस्य योगो ऽपराङ्गो बृहतो असे इति है रथन्तरस्य
हस् इति बृहतः । न हैते अहर्निधने सत्यनिधने । सत्यं ह वा
एतयोर् निधनम् । तस्माद् उभयसाम्ना यजमान आ सायम् एव
यजेत । उभयम् एव बृहद्रथन्तरे आप्ते । स तमिति । उभे
हैवास्य बृहद्रथन्तरे आप्ते भवतः ॥
तद् आहुर् अन्तर्निधने३ बृहद्रथन्तरे बहिर्निधने३ इति । उभयम्
इति ब्रूयाद् अन्तर्निधने च बहिर्निधने चेति । इदं वै
रथन्तरम् अदो बृहत् । तयोर् इदम् एवान्तरिक्षं निधनम् । तेना-
न्तर्निधने । अथ यत् परेण दिवम् अन्तरिक्षं मन्यन्त एवं परेण
पृथिवीम् आपस् तेनो बहिर्निधने इति ॥
तद् आहुर् बृहद्रथन्तरयोर् अन्तर् वामदेव्यं३ वामदेव्ये ऽन्तर्
बृहद्रथन्तरे३ इति । उभयम् इति ब्रूयाद् बृहद्रथन्तरयोर् अन्तर्
वामदेव्यं वामदेव्ये ऽन्तर् बृहद्रथन्तरे इति । इदं वै रथन्तरम्
अदो बृहत् । इदम् एवान्तरिक्षं वामदेव्यम् । तेन बृहद्रथन्तरयोर्
वामदेव्यम् । अथ यत् परेण दिवम् अन्तरिक्षं मन्यन्त एवं परेण
पृथिवीम् आपस् तेनो वामदेव्यं तेन बृहद्रथन्तरे इति ॥ २९८ ॥$^४$
१ य र व समासम्ना समान लक्ष समासमान- तथा च ताण्ड्यमहाब्राह्मणे १२.३.२१ अस् इति वै राथन्तरं रूपं हस् इति बार्हतम् ॥ ३ य लक्ष नास्ति
२ ? य नास्ति । र व स्ख् ल श रस्त्वां । ४ य ॥ खण्डम् ॥ र ॥ ५४ ॥