सामग्री पर जाएँ
सर्वकोश
जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

Jaiminiya Brahmana of the Samaveda with Commentary

महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 89, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 89

१.३०६ ] जैमिनीयब्राह्मणम् [ ८१
अथैतेभ्यस् त्रिभ्यो रूपेभ्यो मध्यंदिनान् नेयाद् अन्धस्वतो
मरुत्वतः प्रत्नवतः । अन्नं वा अन्धो वीर्यं मरुत्सत् स्वर्गो लोकः
प्रत्नः । यद् अन्धस्वत इयाद् अन्नाद्यात् तद् ईयात् । यन्
मरुत्वत इयाद् वीर्यात् तद् ईयात् । यत् प्रत्नवत इयात् स्वर्गात्
तल् लोकाद् ईयात् । स यण् एतेषां सर्वेषाम् अवकाशं न विन्देन्
मरुत्वत एव नेयात् । वीर्यं वै मरुत्वतः । वीर्येण वै कर्म क्रियते
वीर्येण सर्वम् अभ्यश्नुते । तस्मान् मरुत्वत एव नेयाद् इति ॥
अथैतां स्वरेण गायत्रीम् अभ्यारोहति । प्राणस् स्वरः । प्राणेनैवैतत्
प्राणम् अभ्यारोहति । न वै प्राणः प्राणं हिनस्ति । स यत् स्वरेण
गायत्रीम् अभ्यारोहति प्राणम् एव तत् प्रथमो यज्ञस्य दधाति ।
तस्माद् अयं प्राणः प्रथमो हितः ॥
अथो आग्नेयम् एतद् देवतया यत् स्वारम् । आग्नेयम् एतत्
छन्दो यद् गायत्री । अग्निनेव तद् अग्निम् अभ्यारोहति । अग्निर्
वै पथिकृद् देवतानाम् । येन वै केन चाग्निर् एति पन्थानम् एव
कुर्वन्न् एति । स यत् स्वरेण गायत्रीम् अभ्यारोहत्य् अग्निम् एव
तत् पथिकृतं प्रथमो यज्ञस्य युनक्ति । सो ऽग्निनेव कृतं पन्थानम्
अन्वेति । स ³यथा पथा³ यन्न् एवम् एव स्वस्त्य् अरिष्ट उदचं
समश्नुते य एवं विद्वान् स्वरेण गायत्रीम् अभ्यारोहति ॥ ३०३ ॥⁴
१ ? कोशेषु मरुवतस् २ कोशेषु ईं ३-३ व यथापथा
४ र ॥ ५ ॥
निधनेन द्वितीयेनाभ्यारोहति । इन्द्रो¹ वै निधनम् । इन्द्रो
वै श्रेष्ठी² देवतानाम् । यन्न वै श्रेष्ठी³ ग्रामाग्रं प्रतिपद्यते न वै तत्र
रिष्टिर अस्ति । सो ऽरिष्टस् स्वस्त्य् उदचं समश्नुते य एवं
विद्वान् निधनेन द्वितीयेनाभ्यारोहति ॥
अथो एतौ ह वा आशिषौ देवतानां यद् इन्द्राग्नी । स यथाशिषौ
वहिष्ठौ धूर्वोपयुञ्जीत तादृक् तत् ॥
अथैताम् इळायां बृहतीम् अभ्यारोहति । पशव इळा पशवो
बृहती । पशुभिस् तत् पशून् समाकरोति । भूयो वै पशवः
पशुभिस् समाकृताश् शोभन्त इति ॥
स यन् निधनेनाभ्यारोहेद्—वज्रो वै निधनम्—वज्रं पशुषु विवर्ते-
येत् । स यद् इळाया अवकाशान् न विन्देत् स्वरेणाभ्यारोहेत् ।
प्राणस् स्वरः पशवो बृहती । प्राणम् एव तत् पशुषु दधाति ॥
अथैनत् त्रिणिधनं द्वितीयं भवति । त्रयो वा इमे लोका वज्रा
एते । यन् निधनान्य् एभ्यो लोकेभ्य एतैर् वज्रैस् सर्वं पाप्मानम्
अपहते । अथो हास्यैत एव वज्रा एषु लोकेषु सर्वं पाप्मानम्
अपसेधन्तस् तिष्ठन्ति । अथो त्रीणि यज्ञस्य छिद्राणि । ⁵तद् द्वे
अपि यत् तस्य आयतन एकं भवति⁵ ॥ ३०४ ॥⁶
१ कोशेषु इन्द्रोनिधनं ३ रव यदि ५ र ॥ ६ ॥
२ एवं कोशेषु ४-४ ? एवं कोशेषु
अथैतां स्वरेण त्रिष्टुभम् अभ्यारोहति । प्राणस् स्वरः ।
पुरुषसंमित एष यत् पवमानः । स्वारं पुरस्ताद् भवति स्वारम्
उपरिष्टात् । ताव् इमौ पुरुषस्य प्राणापानौ विपर्यूढौ । ताभ्यां
विष्वग्वि स्वरति¹ ॥
अथ रथन्तरम् । रेतस्सित्किर् एव सा ॥
अथ वामदेव्यं स्वारम् । प्राणो वै स्वरः । अस्मिन्न् एवैतद् रेतसि
सिक्ते प्राणं प्रतिष्ठापयति ॥
अथ नौधसं निधनम् । जन्मैव तत् । प्रैव तेन जनयति ॥
अथ कालेयम् ऐळम् । पशवो वा इळान्नं पशवः । यद् एव
जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत् ॥
अथाथैतस्य पवमानस्य गायत्र्य् उक्तब्राह्मणा ॥
अथैतां स्वरेण ककुभम् अभ्यारोहति । प्राणस् स्वरो विवृहः
ककुप् । विवृह एव तत् प्राणं दधाति । स यन् निधनेनाभ्या-
रोहेद्—वज्रो वै निधनम्—यथोपतापिनं² दण्डेन हन्यात् तादृक्
तत् । अथ यत् स्वरेणाभ्यारोहति प्राणम् एवास्याम् एतद्
दधाति । भिषज्यत्य् एवैनाम् एतेन ॥
अथैतां निधनेनोष्णिहम् अभ्यारोहति । वज्रो वै निधने पशव
उष्णीक् । जीर्णा इवैतर्हि तृतीयसवने पशवो भवन्ति । तस्माज्
जीर्णं पशुम् आहुर् अर्थम् एनेन क्रमितति³ । अथो वज्रेणाभिषज्य
शासने⁴ विकारं⁵ सृजसे⁶ ॥
अथ यन् निधनेन बृहतीं परिचक्षते युवान इवैतर्हि पशवो
भवन्त्य् अजीर्णा इव । तस्माद् युवानं पशुम् आहुर् जीववरणी⁷
र्न इति ॥ ३०५ ॥९
१ ? कोशेषु रस्वरति ४ ? व शासेन ७ ? यव ॰चरणी
२ कोशेषु यथा पितादिनं ५ ? यलश विद्धारं र विकारा ८ ? एवं कोशेषु
३ ? यव कुर्वीतति र क्रमीनति ६ ? व मुंञ्जते ९ र ॥ ७ ॥
अथ तां स्वरेणानुष्टुभम् अभ्यारोहति । प्राणस् स्वरो वाग्
अनुष्टुप् । तद् वै दैव्यं मिथुनं यद् वाक् च प्राणश् च । दैव्यम्
एव तन् मिथुनं दधाति । स यन् निधनेनाभ्यारोहेद्—वज्रो
वै निधनम्—वज्रेण दैव्यं मिथुनं वीयात् । स यदि स्वरस्याव-
काशं न .विन्देद् वाङ् निधनेनाभ्यारोहेत् । वाग् अनुष्टुब् वाङ्
निधनम् । न वै वाग् वाचं हिनस्ति ॥
अथैनन् मध्येनिधनं द्वितीयं भवति । वाग् वा अनुष्टुप् । तद्
वाचो ऽनुष्टुभो मध्येनिधनं भवति । रेतस्सित्किर् एव सा ।
तत् सहिङ्कारं भवति । नाभिर वै हिंकारः । नाभ्यो ह वै धृता
गर्भा अवाचीनबिलेभ्यो नावपद्यन्ते । नाभिधृता¹ ह वै गर्भाः ॥
तस्यैतद् दशाक्षरं मध्येनिधनं भवति । दशाक्षरा विराड् अन्नं
विराट् । एतद् ध वै तद् गर्भा अन्नम् अनश्नन्त उपजीवन्ति ॥
अथैतां स्वरेण जगतीम् अभ्यारोहति । प्राणस् स्वरः । पुरुषसंमित
एष यत् पवमानः । स्वारं पुरस्ताद् भवति स्वारम् उपरिष्टात् ।