सामग्री पर जाएँ
सर्वकोश
जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)

Jaiminiya Brahmana of the Samaveda with Commentary

महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा

DevanagariSanskritpublished106 पृष्ठ

पृष्ठ 53, कुल 106 में से

संदर्भ में पढ़ें
पृष्ठ 53

१.१६४ ] जैमिनीयब्राह्मणम् [ ४५
तद् उ काकुभं स्वारं भवति । प्राणो वै स्वारं पुरुषच्छन्दसं
ककुभि । ज्यैष्ठ्यं वै प्राणो ज्यैष्ठ्यं पुरुषः । ज्यैष्ठ्येनैव तज्
ज्यैष्ठ्यं संदधाति ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठति । अथो यजमा-
नम् एव तत् प्राणेन समृद्धयन्ति१ । सम् अस्मा ऋध्यते य
एवं वेद ॥
तान् एकरूपान् न व्यजानात् । स एतत् पौष्कलं सामापश्यत् ।
तेनैषां रूपाणि व्यैकरोत् । ते नानारूपा अभवन् श्वेतो रोहितः
कृष्णः । एकरूपा ह वाव ते ततः पुरासु रोहिता एव । बहुरूपान्
नानारूपान् पशून् अवरुन्द्धे बहुपशुर भवति३ य एवं वेद ॥
अथ पौष्कलम् । पुष्कल आङ्गिरसः पशुकामस् तपो ऽतप्यत । स
एतत् सामापश्यत् । तेनास्तुत । तैतो वै४ पशून् अवारुन्