जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
पृष्ठ 52, कुल 106 में से
संदर्भ में पढ़ें[४४ ] जैमिनीयब्राह्मणम् [ १.१६०
१द्वे वावेदम् अग्रे सवने आस्ताम् । द्वाभ्यां वावेदं सवनाभ्यां
देवा अग्रे व्यजयन्त । तान् विजित्य यथालोकम् आसीनीन्
इन्द्र२ एत्याब्रवीत् त्रीणि छन्दांसि त्रयः प्राणापानव्यानास् त्रय
इमे लोकास् त्रिद् देवेष्व् इत्य् आहुः । एतेमानि त्रीणि सव-
नानि करवामेति । ते ऽब्रुवन् न शक्ष्यामो ऽनेन न्वाव वयं
पूर्वेण कर्मणा परिश्रान्तास् स्म इति । स इन्द्रो ऽब्रवीत् स वा अहं
मद् एवाधि तृतीयसवनं निर्मिमा इति । स आत्मन एवाधि
तृतीयसवनं निरमिमीत । तद् इन्द्रो ह वा एतद् देवतानां यत्
तृतीयसवनम् । इन्द्रेण हास्य देवतानां स्तुतं भवति य एवं विद्वांस्
तृतीयसवनेन स्तुते ॥
धीतम् इव वै तृतीयसवनम् । जागतं सुपर्णं आहरन्न् अधयत् ।
तद् एतद् पीडितम् इव । स्वादिष्ठया इति । स्वदयन्त्य् एवैनत्
तेने३ । मदिष्ठया इति । रसम् एवास्मिंस् तन् मदं दधति ।
आशिरम् अवनयन्ति पशुना चरन्त्य् एवैतेन प्याययन्ति ॥
रक्षोहा विश्वचर्षणीर् अभि योनिम् अयोहत इति पूर्वयोर् एवैष
सवनयोर् अभिसंक्रमः । तासु गायत्रम् उक्तब्राह्मणम् ॥ १५६ ॥४
१ प्रारम्भे यलवश हरिः ओम् २-२ १ यलश ०न्यादिंद्र २ ०त्वाद ३ लश त्येन
४ २ ॥ १॥ ष ॥ ८८ ॥
अथ संहितं द्व्यक्षरनिधनं१ प्रतिष्ठायै । द्विपाद् वै यजमानः
प्रतिष्ठित्यै ॥
देवासुरा अस्पर्धन्त । ते ऽब्रुवन् यन् न इदम् उभयं धनं तत्
संनिदधामहै । तेषां नो यतरे जयन्ति तेषां न एतद् उभयं धनं
संहितम् असद् इति । तद् यद् एषाम् उभयं धनम् आसीत् तत्
संन्यदधत । ते देवा अकामयन्तोभयम् इदं धनं संहितं जयेमेति ।
त एतत् सामापश्यन् । तेनास्तुवत । तेनोभयं धनं संहितम् अज-
यन् । तद् यद् उभयं धनं संहितम् अजयंस् तत् संहितस्य
संहितत्वम् । उभयम् एव२ संहितं द्विषन्तं भ्रातृव्यं जयति य
एवं वेद ॥
तद् उ होवाचारुणिर् अश्वो वाव स संहित आसीत् । तस्मिन्न्
एवैषां तद् धनं संहितम् आसीत् तम् एव तद् असुराणाम्
असृजत प्रजापतिं वावैषां तद् अब्रुवतेति । ततो वै देवा अभवन्
परासुराः । भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य
एवं वेद ॥ १५७ ॥३
१ यलश ०निधनं २ षव अधिपाठः धनं ३ २ ॥ २॥ ष ॥ ८९ ॥
अथो हैतद् अविच्छिन्नम् इव वै माध्यंदिनात् सवनात्
तृतीयसवनम् । ते देवा एतद् व्यवैक्ष्याविदुर् अविच्छिन्नम् इव वा
इदं माध्यंदिनात् तृतीयसवनम् इति । त एतत् सामापश्यन् ।
तेनैतत् समदधुः । यत् समदधुस्१ तद् व् एव संहितस्य संहि-
तत्वम् । संहितं हास्यैतत् तृतीयसवनम् अनवच्छिन्नं भवति य
एवं वेद ॥
उष्णिह्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रम् उदयच्छद् गायत्र्योस्
तिष्ठन् । ते एनं नोदयच्छताम् । तयोश्च चतुष्पादः२ पशून्
उपादधाद् गां चाश्वं चाजां चाविं च । ते एनम् उदयच्छताम् ।
स उष्णिह्ककुब्भोस् तिष्ठन् सप्तपौष्कले बाहू कृत्वा प्राहरत् । तम्
अहन् । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ॥ १५८ ॥३
१ व-व वर्जम् अन्यत्र समधुर् २ व ष ०ष्पदः ३ २ ॥ ३॥ ष ॥ ९० ॥
स प्राचान्येन पदा प्राभ्रंशत प्रतीचान्येन । येन प्राचा प्राभ्रं-
शत सा ककुब् अभवत् । तस्मात् ककुभः पूर्वार्धे ऽक्षराणि
भूयिष्ठानि । अथ येन प्रतीचा प्राभ्रंशत सोष्णिग् अभवत् ।
तस्माद् उष्णिहो जघनार्धे१ ऽक्षराणि भूयिष्ठानि । ते वा एते
छन्दसी धेनुश् चैवानड्वांश् च । तस्मात् पशवः पूर्वार्धेन च
जघनार्धेन च भूयिष्ठं भाजयन्ति२ वहन्ति पूर्वार्धेन दुहे च
जघनार्धेन प्र च जनयन्ति । उभयं धेनुपयसं चानडुत्पयसं चाव-
रुन्द्धे य एवं वेद ॥ १५९ ॥३
१ केषु चित् कोशेषु जघन्या० २ एवं व ष । अन्यत्र भुंजंति ३ २ ॥ ४॥ ष ॥ ९१ ॥
तासु संभं यज्ञस्यैव समतायै । यद् ध वै किं च यज्ञस्य
दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतत् सभतायै । सभम्
अविभ्रम् असद् इति ह वा एतेन स्तुवन्ति । साभं ह वा एतन्
नाम ॥
सभेन वै देवा असुराणां तेजो बलम् इन्द्रियं वीर्यं पशून् अन्नाद्यं
सभेन सभम् आत्मानम् अभ्यकुर्वत । तत् सभस्य सभत्वम् ।
सभेनैव द्विषतो भ्रातृव्यस्य तेजो बलम् इन्द्रियं वीर्यं पशून् अन्नाद्यं
सभेन सभम् आत्मानम् अधिकुरुते य एवं वेद ॥
प्रजापतिः पशून् असृजत । ते ऽस्मात् सृष्टा अपाक्रामन्न् । सो
ऽकामयत न मत् पशवो ऽपक्रामेयुर् अभि मा वर्तेरन्न् इति ।
स एतत् सामापश्यत् । तेनास्तुत । ततो वै तं पशवो ऽभ्याव