जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
पृष्ठ 23, कुल 106 में से
संदर्भ में पढ़ें[१.५२ ] जैमिनीयब्राह्मणम् [ १५ ]
| १ ? र श अवसली | ५ ? य व ष सुतर्त्तन ल१ सुन्नी | ८ र-वर्जं सर्वेत्र प्रोणवन्ति |
|---|---|---|
| अन्यत्र अपसली | ल२ मन्नि श चन्नी | र प्रोण्यति |
| २ ? य र व पर्याण्यस्य | ६ ल व ष नास्ति | ९ र व ष नास्ति |
| ल ष ०णया श ०णयं | अतः परं ल-कोशस्य पाठा | १० ष तद् |
| ३ र कूटो न | उदाहर्तुं न शक्याः ॥ | ११ व ष ०णेव |
| ४ र श वचाम् व ष वपचाम् | ७ व ष चिन्वन्ति |
तं प्रतिब्रूयात्
विचक्षणाद् ऋतवो रेत आभृतम्
अर्धमास्यं॑ प्रसृतात् पित्र्यावतः ।
इति । यद् अदो विचक्षणं सोमं राजानं जुह्वति तद् तत् ।
तं मा पुंसि कर्तर्य् एरयध्वम्
इति । पुंसि ह्य् एनम् एतत् कर्तर्य् एरयन्ते ।
पुंसः कर्तुर् मातर्य् आसिञ्चित
इति । मातरि ह्य् एनम् आसिञ्चति ।
स उपजायोपजायमानस् त्रयोदशेन द्वादशोपमासः
इति । एष त्रयोदशो य एष तपति ॥
सं तद् विदे प्रति तद् विदे ऽहम् ।
तं मर्तवो॑ ऽमृत॑ आनयध्वं द्वादशत्रयोदशेन पित्रा ।
तया मात्रा तया श्रद्धया तेनान्नाद्येन तेन सत्येन ॥
अहर् मे पिता रात्रिर माता ॥ सत्यम् अस्मि ॥
"ते मर्तवो॑ ऽमृत॑ आनयध्वम् ॥
इति । तं हर्तव आनयन्ते । यथा विद्वान् विद्वांसं यथा जानन्
जानन्तम् एवं हैनम् ऋतव आनयन्ते । तं हात्यर्जयन्ते⁶ । स
हैष न मनुष्यो य एवं वेद । देवानां ह वै स एको य एवंवित् ।
तं ह वै मनोजवसः पितरश् च पितामहाश् च प्रत्यागच्छन्ति
ततः किं न आहार्यीद् इति । तान् प्रतिब्रूयाद् यत् किं च पुण्यम्
अकरं तद् युष्माकम् इति । तस्य पुत्रा दायम् उपयन्ति पितरस्
साधुकृत्यां द्विषन्तः पापकृत्याम् । स एवम् एतत् त्रेधा विभज्यै-
तस्य सलोकताम् अप्येति य एष तपति ॥ ५० ॥
| अस्यां कण्डिकायां ल-कोशस्य | २ एवं सर्वेषु कोशेषु | ४-४ य र श तममऋतवो |
|---|---|---|
| पाठा उदाहर्तुं न शक्याः ॥ | ३-३ य श हंतमम ऋतवो | व ष तम्म ऋतवो |
| १ सर्वेषु कोशेषु ०मासं | र हतममृतवो व ष हतममा ऋतवो | ५ व ष मृतम् |
| ६ य र श हात्यंर्जयंते व ष हर्यंर्जयंते |
¹दीर्घसत्रं ह वा एत उपयन्ति ये ऽग्निहोत्रं जुह्वति । एतद्
ध वै सत्रं जरामूर्यि²यम् । जरया वा ह्य् एवास्मान् मुच्यते
मृत्युना वा ॥
तद्³ आहुर् "यद् एतस्य दीर्घसत्रिणो ऽग्निं⁵ जुह्वतो ऽग्नीन् अन्त-
रेण युक्तं वा वियाताय् सं वा चरेयुः किं तत्र कर्म का प्राय-
श्चित्तिर् इति । वज्रो⁶ वै चक्रः । वज्रो वा एतत्सारीन् अन्वेति⁷
यस्यान्तरेण युक्तं वा वियाति⁸ सं वा चरन्ति⁹ । कुर्वीत हैव
निष्कृतिम् अपि हेष्ट्या यजेत । तद् उ तथा न विद्यात् । इमान्
वा एष लोकान् अनुवितनुते यो ऽग्नीन् आधत्ते ॥
तस्यायम् एव लोको गार्हपत्यो भवत्य् अन्तरिक्षलोको ऽन्वाहार्य-
पचनो ऽसाव् एव लोक आहवनीयः । कामं वा एषु लोकेषु युक्तं
चायुक्तं च वयांसि¹⁰ चै चरन्ति । स विद्याद् यदि मे ऽपि ग्राम
एवाग्नीन् अन्तरेणायासीन् नैव म आर्तिर् अस्ति न रिष्टिः का
चनेति¹¹ ॥
अथो ह त्वै ग्राम्याः पशवो ऽजुष्टा दुर्वराह एडकश् श्वा¹² ।
तेषां यदि कश् चिद् अन्तरेण सञ्जेजीयेत¹³ किं तत्र कर्म का
प्रायश्चित्तिर् इति ॥ ५१ ॥
| अस्यां कण्डिकायां ल-कोशस्य | ५ य ग्निहोत्रं | १० सर्वेषु कोशेषु पयांसि |
|---|---|---|
| पाठा उदाहर्तुं न शक्याः ॥ | ६ व ष खज्रो | ११ एवं सर्वेषु कोशेषु |
| १ प्रारम्भे य व ष हरिः ओम् | ७-७ य एत | १२ सर्वेषु कोशेषु चनयति |
| २ य र श जरामु० | ८ व ष ये° | १३ सर्वेषु कोशेषु च |
| ३ र यतद् | ९ र पियाति श पियाति | १४ ? एवं सर्वेषु कोशेषु |
| ४-४ र श यदेतस्र्यानि (र श्नि) न्वेति | व ष विपियाति |
तद् उ हैके छादिर्मुष्टिम् एव निवपन्तो यन्ति । गार्हपत्याद्
आहवनीयान् निनयन्न् इयात्¹ इदं विष्णुर् विचक्रमे इत्य् एतयर्चा² ।
तद् उ तथा न कुर्यात् । यो ह तत्र ब्रूयाद् आसान्न् अन्या³ अयं
यजमानस्यावाप्सीत्⁴ क्षिप्रे परमासान्⁵ आवप्स्यते ज्येष्ठंष्ठगृहं⁶
रोत्स्यतीति तथा हैव स्यात् ॥
इत्थम् एव कुर्यात् । उदपात्रं वैवोदकमण्डलुं वादाया गार्हपत्याद्
आहवनीयान् निनयन्न् इयात् इदं विष्णुर् विचक्रमे इत्य् एतयै-
वर्च्चा । देवपवित्रं वा एतद् यद् ऋग् देवपवित्रम् एतद् यद्
आपः । तद् यद् एवात्र यज्ञस्याशान्तं भवति यद्
अमेध्यम् आपो वै तस्य सर्वस्य शान्तिः । अद्भिर एवैनं तच्
छमयन्ति ॥ ५२ ॥