सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

३७ क्षुद्रचिकित्सिताध्यायः ] हस्त्यायुर्वेदः । २४३
वस्त्रेण परिसंस्त्रा(स्रा)व्य क्षीरं स्यात्सुखशीतलम् ।
ततो द्राक्षारसं दद्यान्माषचूर्णेन योजयेत् ॥
प्रत्यूषे पाययेन्नागं ततः संपद्यते सुखी ।
तेन मूत्रोपरोधस्तु श्वासो दाहश्च शाम्यति ॥
शृगालविन्नाचूर्णं स्यात्पिप्पलीद्वयमेव च ।
श्वेतं च लशुनं दद्याद्यथायोगं विचक्षणः ॥
एतत्संभृत्य संभारं स्थाल्यां प्रक्षिप्य साधयेत् ।
चतुर्भागावशिष्टं च क्वाथं वस्त्रपरिस्रुतम् ॥
तैलद्रोणे समावाप्य मर्दयेन्मौद्गमोदनम् ।
भोजनं यवसं पानं शीतलं संप्रदापयेत् ॥
एवं श्रेष्ठो भवेन्नागो भारोन्मथितपीडितः ।
प्रवातस्थाने शयनं वारणस्य प्रशस्यते ॥
सेचयेद्बहुशः स्थानं सुखशीतेन वारिणा ।
भोजने दापयेत्क्षीरमन्नयुक्तं नराधिप ॥
सर्पिर्दद्यात्समायुक्तं योगेनानेन शास्त्रवित् ।
प्राणो भवति तेनास्य वीर्यं तेजश्च वर्धते ॥
स्थाननिर्वाणशयने प्रमाथे पांसुघातने ।
सदा सुखोचितं कुर्याच्छय्या वाऽपि यथासुखम् ॥
न योजयेच्च तं नागं हस्तियुद्धे महीपते ।
तथा कर्मपथे वाऽपि निष्ठावे(?)वर्तनेऽपि च ॥
एतैरून्मथितो नागः पुनर्व्यापदमृच्छति ।
तस्मान्न योजयेद्राजा *भारेणोन्मथितं गजम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदंमहाप्रवचने महापाठे द्वितीये क्षुद्ररोग-
स्थाने भारोन्मथितो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥
अथ सप्तत्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
लुप्तः कथं संभवति कथं वा साध्यते हि सः ॥

  • पुस्तकद्वयेपि 'भाषणो' इति पाठ उपलभ्यते ।
    १ क. दाहः प्रशा० । २ क. ०विन्नाचू० । ३ क. ०स्थानशं० ।

२५४ पालकाप्यमुनिविरचितो— [ ३ क्षुद्ररोगस्थाने
एतन्मे पृच्छतो ब्रूहि निर्मलेनान्तरात्मना ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
औष्ण्याद्वेगाभिघाताद्वा क्षाराम्ललवणाशनात् ।
श्रमाद्भयाद्वा तापाद्वा यथा वा रूक्षभोजनात् ॥
वायुः प्रकुपितोऽत्यर्थं बलासं(?)पित्तमेव च ।
प्रेरयन्कोपयेत्स्वांस्तंकृततन्तुः (?) समन्ततः ॥
पच्यन्ते तेन मांसानि तेन लुप्त इति स्मृतम् ।
वाद्यते ताड्यमानोऽसौ मृदङ्ग इव ताडितः ॥
लुप्ताभिभूतं मातङ्गं विज्ञायाऽऽशु प्रसाधयेत् ।
चतुर्णां क्षीरिणां क्वाथं मधुयुक्तं निषेवितम् ॥
पोत(थ)पेद्वा पचेद्वाऽस्य सक्षीरं लाजतर्पणम् ।
पथ्यं स्निग्धं च तत्सर्वं तमस्मै संप्रदापयेत् ॥
मयूरमृगमत्स्यानां वेसवारेण भोजयेत् ।
हरितं यवसंपन्नं सल्लकीं चसयारेपि(?) ॥
मनः प्रसाद्येत्तस्य तोमं(?)सुखं न पाययेत् ।
(† न चास्य मनसः किंचिद्व्याघातमुपकल्पयेत् ॥
शाल्योदनं ससर्पिष्कं भोजयेद्रससंयुतम् ।
मत्स्याण्डकाभिसंयुक्तं क्षीरं चास्मै प्रदापयेत् ॥ )
लुप्तादेवं विमुक्तस्य बलं तेजश्च वर्धयेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
लुप्तचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
अथाष्टात्रिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
भगवन्संग्रहे पूर्वं पत्रकृमिरुदाहृतः ॥ १ ॥
तस्योत्पत्तिं निदानं च भेषजं च ब्रवीहि मे ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
† धनुराकारस्थो नास्ति पाठः कंपुस्तके ॥
१ क. ॰पवस्या॰ । २ क. तामं ।

३८ तम[क्षुद्ररोगा]ध्यायः ] हस्त्यायुर्वेदः । २४५
प्रावृट्काले महाराजं जरत्पत्राकुले वने ॥
सदंशमशकाकीर्णे शाद्वलोदकभूमिषु ॥ ३ ॥
चरन्ति करिणो हृष्टा यथाकालं यथासुखम् ॥
पत्रच्छन्नासु शाखासु कदाचित्पत्रजो नृप ॥ ४ ॥
रोमशस्ताम्रवर्णाभः पत्रमाश्रित्य लीयते ॥
पत्रालयः पत्रभक्षी स पत्रकृमिसंस्थि(ज्ञि)तः ॥ ५ ॥
गजं स्पृशत्यसौ जन्तुर्गजो वा स्पृशते तु तम् ॥
अत्यन्तगुरुदेहस्तु गजो भित्त्वा वै मेदिनीम् ॥ ६ ॥
हस्तेन जृम्भमाणस्तु शिरो धुन्वन्सुदुःखितः ॥
वेपते परिमूत्री च यूथाद्वा प्रपलायते ॥ ७ ॥
एतद्वै तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ॥
*सर्पिषा सर्वशेषं तु शतधौतेन कारयेत् ॥ ८ ॥
कर्णाधानसमे तोये निर्वपेत्तमनेकपम् ॥
उत्तार्य सलिलात्पश्चादिमं लेपं प्रदापयेत् ॥ ९ ॥
दूर्वाबिशकुशोशीरं सारिवोत्पलचन्दनम् ॥
नलवञ्जुलमूलानि सूक्ष्मचूर्णानि कारयेत् ॥ १० ॥
सर्पिषा सह संयोज्य लेपयेद्दारणं भिषक् ॥
यद्येतेन प्रयोगेण नोपशाम्यति वेदना ॥ ११ ॥
आरभेत क्रियामन्यां शास्त्रयोगेन योगवित् ॥
उभे हरिद्रे मञ्जिष्ठा नलदं मुस्तसारिवा ॥ १२ ॥
सर्पिषा सह संयुक्तं काले लेपनमुत्तमम् ॥
मुद्गौदनं प्रभूतेन सर्पिषा भोजयेद्गजम् ॥ १३ ॥
विचित्रैर्यवसैश्रैव यवसाध्वायकीर्तितैः ॥
दापयेन्मतिमान्वैद्यस्ततः संपद्यते सुखम् ॥ १४ ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोग-
स्थाने पत्रकृमिनामाऽष्टात्रिंशोऽध्यायः ॥ ३८ ॥

  • 'सर्पिषा स्पर्शदेशं तु शतधौतेन धावयेत्' इत्यभिप्रायः प्रतिभाति ॥
    १ क. ०ज रम्ये पन्ना० । २ क. तौ । ३ क. भीत्वा । ४ क. तु ।

२४६ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
अथैकोनचत्वारिंशोऽध्यायः।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ।
उरःक्षतः कथं नागो जायते शास्त्रकोविद ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।
अतिभाराध्वगमनाल्लङ्घनात्प्लुवते(ने) न वा ॥
नियोगाद्वाऽपि सहसा वृक्षाणां चापि भञ्जनात् ।
कपालाट्टतटादीनां प्राकाराणां च भञ्जनात् ॥
प्रतिहस्त्यभिघाताद्वा जलक्रीडात्ययेन वा ।
उरःस्तम्भोऽस्य भवति स निषीदति वेपते ॥
गजः स्तनति वोच्छिङ्गन्गात्राभ्यां न च तिष्ठति ।
एतद्रोगसमुत्थानं चिकित्सितमतः शृणु ॥
सम्यक्स्थानोपपन्नस्य भेषजानि समाचरेत् ।
फालस्वेदं च विधिवन्नाडीस्वेदं समाचरेत् ॥
सुस्विन्नमेव मातङ्गं गोमयेन प्रलेपयेत् ।
तर्कारी बिल्वमेरण्डं वेणुपत्रं यवांस्तिलान् ॥
आटरूषकपत्राणि अर्कं मेषविषाणिनाम् ।²
अजशृङ्गाग्निमन्थे च जले प्रक्षिप्य पाचयेत् ॥
ततस्तं संपगासेन (?) स्वभ्यक्तं परिषेचयेत् ।
नाडीस्वेदं विदध्याच्च त्रिवृतां चैव पाययेत् ॥
यवकोलकुलत्थैश्च काश्मर्योदुम्बरैस्तथा ।
द्वाभ्यां वा पञ्चमूलाभ्यां तैलं धीरो विपाचयेत् ॥
तेनास्याभ्यञ्जनं कुर्यात्सम्यकर्मानुवासनम् ।
सँमवस्थापयेत्स्थाने सुखशय्यां च कारयेत् ॥
स तेन लभते सौख्यमारोग्यं च नियच्छति ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थान
उरःक्षतो नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
१ ख. ०ते राज०। २ क. ०गिजाम्। ३ क. समगासेन । ४ क. समे च स्या०।

४० शोणिताण्डाध्यायः ] हस्त्यायुर्वेदः । २४७
अथ चत्वारिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां रोमपादो महायशाः ।
विनयेनोपसंगम्य पालकाप्यं स्म पृच्छति ॥
शोणिताण्डस्य भगवंल्लक्षणं वक्तुमर्हसि ।
तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥
अभिघातेन नागस्य यदा मूत्रं विमुच्यते ।
कोशो विवर्णो भवति परिमूत्री च जायते ॥
ततः कोशगतो वायुरभिघातेन कोपितः ।
ततः कोपयते रक्तं मूत्रं बस्तौ गतोऽनिलः ॥
उद्भ्रमो जायते तेन वक्ष्यमाणः परो नृप ।
मृदू भवेतां वृषणौ स्तनौ पाण्डुत्वचूचुकौ ॥
पिण्डिकाभिः परिवृतौ भवेतां .... .... .... .... ।
.... .... .... .... .... .... ....'डि न शूपते ॥
वर्धते पेचक .... .... .... ण्डकोशो च दन्तिनः ।
शुक्रमूत्रनिरोधाच्च विधुनोति स वालधिम् ॥
एतद्वै तस्य विज्ञानमत ऊर्ध्वं चिकित्सितम् ।
अण्डकोशौ च यत्नेन शस्त्रेणास्योपवेधयेत् ॥
शोणितं मोक्षयित्वा तु सर्पिषाऽभ्यञ्जयेत्तु तम् ।
प्रतिपानं त्र्यहं दद्यात्सुरामधुसमन्वितम् ॥
उभे हरिद्रे मञ्जिष्ठा मधुकौशीरदारु च ।
आसवेनाभिसंयोज्य प्रतिपानं प्रदापयेत् ॥
उशीरं पद्मकं चैव हरितालं मनःशिलाम् ।
तण्डुलीकमप्यत्र समायोज्य प्रदापयेत् ॥
कदुष्णं मधु कृत्वा तु वृषणौ तस्य लेपयेत् ।
सुखी भवेच्च चेत्तेन ततः स्वेदं समाचरेत् ॥
अग्निकर्म ततः कार्यमुभयोरण्डकोशयोः ।
जाम्बवौष्ठेनाग्निवर्णेन समन्तात्परिडाहयेत् ॥
पिप्पलीशृङ्गवेरेण गुडतैलेन चैव हि ।
सुरां नागाय संयुक्तां प्रतिपानं प्रदापयेत् ॥
१ क. मूत्रयन्तो ग० । २ क. जम्बूघोष्ठे० ।

२४८ पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने—
लवणं तिलकल्कं च शोषणार्थं प्रदापयेत् ।
गेरिकं घृतसंयुक्तं दापयेद्व्रणरोपणम् ॥
तिलकल्कसमायुक्तं प्रलेपं तस्य कारयेत् ।
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
शोणिताण्डी नाम चत्वारिंशोऽध्यायः ॥ ४० ॥
अथैकचत्वारिंशोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
पादरोगस्त्वया सम्यक्त्रिंशत्तु समुदाहृताः ।
यस्त्वया क्षुद्ररोगेषु पुनरन्यः प्रकीर्तितः ॥
यवगण्डेशिरो नामा पादरोगः सुदारुणः ।
तस्य लक्षणमुत्पत्तिं चिकित्सां च ब्रवीहि मे ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ।
यदाऽत्यर्थं गर्जस्तां तु(?)सा—सान्ववगाहते ॥
भुक्त्वा वा निशि जागर्ति व्यानो वायुर्यदा भवेत् ।
कषायतिक्तकटुकैराहारैर्वाऽप्यभिद्रुतः ॥
तदाऽनिलः प्रकुपितो वारणस्य महीपते ।
शूनान्पादान्करोत्यस्य नखवृद्धिं च हस्तिनः ॥
तेषामाकृतयो बह्व्यस्तिर्यगूर्ध्वमधस्तथा ।
जायन्ते वर्धमानास्ते नैकवर्णाः कदाचन ॥
केचा वला विवर्णा ॰॰॰॰ दलिताः स्फुटितास्तथा ।
वक्राः शोणितपूर्णाश्च भवन्ति चरणा नृप ॥
ज(य)वगण्डशिरारुयेन पादरोगेन पीडिताः ।
सर्वेभ्यः पादरोगेभ्यः कष्टोऽयमिति कीर्तितः ॥
तमाहुर्नृपशार्दूल नृवेद्या वातशोणितम् ।
उत्पन्नमात्रः साध्योऽयमसाध्यः कालपर्ययात् ॥
साधनं विधिवच्चास्य कीर्त्यमानं निबोध मे ।
१ क. स. ॰रन्यत्प्रकी॰ । २ ख. ॰ण्डसरो । ३ क. ॰जस्तोतु । ४ क. ॰भि-
क्षुतः । ५ क. कचाषला ।

पूर्वं विश्रा(स्रा)वणं कार्यं ततोऽस्य नखशोधनम् ॥
प्रलेपो बहुशश्चास्य वातघ्नैः संप्रलेपयेत् ।
एवं पूर्वक्रमं कृत्वा महास्नेहेन स्नेहयेत् ।
बस्त्यभ्यङ्गाच्छाद्यानाति(?) त्रिवृतेन भिषग्वरः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्ररोगस्थाने
यवगण्डशिरो नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥
अथ द्वाचत्वारिंशोऽध्यायः ।
ज्वलनादित्यसंकाशं मुनिमुग्रतपोधनम् ।
पृच्छति स्म रोमपादः सहस्राक्षसमद्युतिः ॥
चर्मकीलाः संभवन्ति साध्यन्ते वा कथं पुनः ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
यदा प्रकुपितं पित्तं त्वचमाश्रित्य तिष्ठति ।
तच्छोष्यमाणं वातेन कदम्बमुकुलीकृतान् ॥
चर्मकीलान्संजनयेत्तेषां वक्ष्यामि साधनम् ।
क्षारशस्त्राग्निकर्माणि यथायोगं तु कारयेत् ॥
कषायतिक्तलवणैर्धावनालेपनानि च ।
तैरेव पक्वस्नेहस्तु म्रक्षणे सततं हितः ॥
लशुनानि हरिद्रे द्वे पिप्पल्यौ मरिचानि च ।
सर्षपान्गृ(न्यु)हधूमं चं गवां मूत्रेण पी(पे)षयेत् ॥
एतदालेपनं श्रेष्ठं चर्मकीलविनाशनम् ।
द्विव्रणीयोपचारेण व्रणांश्चातांश्च साधयेत् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ।
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने चर्म-
कीलो नाम द्वाचत्वारिंशोऽध्यायः ॥ ४२ ॥
अथ त्रयश्चत्वारिंशोऽध्यायः ।
अतः परं प्रवक्ष्यामि वृद्धस्य परिरक्षणम् ।
वयोमध्यं व्यतिक्रान्ते वायुः श्लेष्मा प्रकुप्यति ॥
१ क. ॰पन्नैः । ए० । २ क. वा ।
३२

३५४ पालकाप्यमुनिविरचितो— [२ क्षुद्ररोगस्थाने-
शोणितं चास्य पित्तं च तस्मादल्पतरं भवेत् ।
शोणितस्याल्पभावाच्च विवर्णपरुषच्छविः ॥
सर्वाङ्गशिथिलो भूप उत्साहश्चास्य हीयते ।
.... .... .... हीनभावस्य चिरेणास्य विपच्यते ॥
वातश्लेष्मविवृद्धौ तु न शक्तो भोक्तुं द्विपम् ।
दारुणं लभते व्याधिं जरामाहुर्मनीषिणः ॥
तस्योपयोगान्कुर्वन्ति स्थानं यवसभोजनम् ।
शय्याभागे मृदुं कुर्याद्दहत्तु सुसमाहितम् ॥
तत्र संस्थापयेच्चोक्ता यथाकालविभागशः ।
निर्वाणगमनाच्चैतं कारयेत समं तथा ॥
( ✱पांशुप्रमध्वरणं(?)सममेव निषेधयेत् ।
शिरोभ्यङ्गं च नागस्य गात्राभ्यङ्गं च कारयेत् ॥
मृदुगात्रापरो राजञ्शिरोदाहात्प्रमुच्यते । )
दापयेत्प्रतिपानं तु द्राक्षाद्रोणेन संयुतम् ॥
यथायोगप्रमाणेन दीप्यते ह्यनलस्तथा ।
यवसानि विचित्राणि रसं दुग्धं तथैव च ।
भोजनं च भिषग्दद्याद्यथोक्तं समुपाचरेत् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने वृद्ध-
चिकित्सा नाम त्रयश्चत्वारिंशोऽध्यायः ॥ ४३ ॥
अथ चतुश्चत्वारिंशोऽध्यायः ।
अथाङ्गराजो रोमपादो भगवन्तं पालकाप्यमनलमिव दीप्यमानं पप्रच्छ—
भगवन्कथं मातङ्गजोऽवसन्नो भवति ॥
पालकाप्यो महाराजं .... .... .... .... .... .... .... ।
हेतुभिर्विविधैर्यस्मादवसीदति जीवितम् ॥
अवसन्नस्ततः साध्यो क्षणा(?) वाऽप्या व्यतिक्रमात् ॥
इह खलु भो ग्रामेऽरण्ये वा संनिहिताच्च(च)लविविधविध्वंसमहिमपतनशि-
शिरपवनपरिक्षीवनाद्वा म्रियते । अत्यर्थकर्मणाऽतिष्यापामात्, अध्वगमनात्,
✱ धनुराकारमध्यस्थो नैव पाठः कपुस्तके ॥
१ क ॰तरो म॰ । २ क. मृदू ।

प्रतिहस्त्यभिघातात्, ग्रामेऽत्यर्थबन्धनात्, विषमविरुद्धातिमात्रालपभोजनात्,
अनशनात्, अत्यशनात्, अत्यर्थस्नेहात्, रौक्ष्यात्, अभिघातात्, उपेक्षणाच्च
व्याधीनाम्, मूर्खवैद्यक्रियाभिश्चावसीदति, ग्राहेण वा स म्रियते । कफपवनरुधि-
रपित्तसंनिपातसंभवैर्व्याधिभिः, संग्रामे वा शरशक्तितोमरपरश्वधभिन्दिपालक-
णयकभ्यणखर्परखड्गमुशलमुसण्डिपरिघदीर्घासिगूलशस्त्राभिघाताद्वाऽवसीदति,
जरया च, इति ॥
अवसन्नानां च नागानां चिकित्सां संप्रयोजयेत् ।
सहसा व्याध्यभिहतः स्वयं वा परिणामितः ॥
अज्ञानान्निपतेन्नागो रूपे सुविषमेऽपि वा ।
अवसन्नमेतं विज्ञाय समन्तात्परिषेचयेत् ॥
द्वारशालां तृणं काष्ठं तुलां चैवास्य कारयेत् ।
उत्थापयेत्तु तं नागं सर्वयत्नेन बुद्धिमान् ॥
जलाशये यदि पतेत्पायेयु(?)रुदकं ततः ।
कूपे यदा पतेन्नागस्तत्र क्षिप्रं प्रपूरयेत् ॥
ततः शालां च पांशुं च तृणानि च समाक्षिपेत् ।
सर्पिः क्षीरं च पानार्थे सर्पिषा वाऽपि सेचनम् ॥
यवसानि विचित्राणि हरितानि मृदूनि च ।
फाणितेनातिसंयोज्य के(क)वलांस्तु प्रदापयेत् ॥
असंविभागादेतानि अवसन्नः पतेद्गजः ।
भारोन्मथितकायो वा निम्नगो वाऽपि सर्वशः ॥
अवसीदेद्गजो राजन्नृपाणामन*वेक्षयेत् ॥
तत्र श्लोकौ भवतः—
नागान्गृहीत्वा स्वयमेव राजा पश्यत्सदा पुत्रवदप्रमत्तः ।
वैद्यं पुरस्कृत्य च कारयेत यद्यस्ति कार्यं प्रतिकारयुक्तम् ॥ १ ॥
एते बलानां प्रबलाशत्रूणां महाबलोद्गच्छकरात्मसूताः ॥
इहैव चामुत्र च पूज्यमाना नागाः प्रयच्छन्ति नृपाय तुष्टिम् ॥
इत्यब्रवीत्पालकाप्यो राज्ञाऽङ्गेन प्रचोदितः ॥
[L28

"? No, wait, look at 'ख. ०षाऽपि शतै०' in footnote - this is an edition from Anandashram Sanskrit Series (ASS) No. 26, "Hastyāyurveda" by Pālakāpya Muni!
Yes! Anandashram Sanskrit Series No. 26:
Page 262:
पालकाप्यमुनिविरचितो- [२ क्षुद्ररोगस्थाने-
अथ पञ्चचत्वारिंशोऽध्यायः।
अङ्गराजो महाप्राज्ञः पालकाप्यं स्म पृच्छति ।
व्याधिर्जठरको नाम जायते साध्यते कथम् ॥
लक्षणैर्लक्ष्यते वाऽपि कीदृशैर्द्विजसत्तम ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
व्यायामादतिरौक्ष्याच्च मारुतो जठराश्रितः ।
तस्माज्जठरको नाम व्याधिर्भवति हस्तिनः ॥
तमष्ठीलमिति प्राहुर्नरवैद्या नराधिप ।
विकारानृच्छति बहून्विष्करूपो हि मारुतः ॥
कदाचिन्मूत्रबस्तिस्थः कदाचित्पायुसंस्थितः ।
पक्वाशयस्थः कुक्षिस्यो दोषस्थानगतः क्वचित् ॥
क्षोभणं ग्रासविद्वेषी जठरस्य च गर्जनम् ।
त

४६ बालचिकित्साध्यायः ] हस्त्यायुर्वेदः । २५
द्विरदपतयो बाला ग्रहणमुपमच्छन्ति । तेषां किं विधानम्, कथं च संरक्षा
कार्या, भगवन्मनोमोहोऽत्र समागच्छन्त्येव बालेषु ॥
एवं पृष्टः पालकाप्यस्ततोऽब्रवीत्—'इह खलु भोः स्वयूथवनवाससुखसंवृद्ध-
(द्धा) गिरिशिखरविवरकन्दरकाननेषु बहुविधकुसुमवनेषु तृणकवलकुवलपल्लव-
न्भक्षयन्ति पितृमातृसंबद्धाः । तथा—चक्रवाकसारसानुगीतेषु सुरभिसलिलशी-
तलेषु सुसंवृद्धाः, त इह चोद्योने वनेषु वस्त्रामरणसुवर्णरजविविधकुसुमविभू-
षणार्थं कदाचिद्ग्रहणमुपगच्छन्ति । तेषां पितृमातृवियुक्तानां बालानां पोषण-
माभरणसुवर्णमनुग्रहार्थं भोजनयवसकवलकुवलविधानं वक्ष्यामः ॥
तेषां व्याधिनिग्रहार्थं बलिहोमप्रायश्चित्तकर्माणि बहुविधपौष्टिकरक्षोघ्नां
सामान्यवस्तूक्तानि नित्यं बालानां कारयेत् । सर्पिःक्षीरमधुफाणितसंसृष्टपा-
दद्यात् । औदकानि यवसानि हरितानि मृदुविचित्राणि समृणालोत्पलशृङ्ग-
टककसेरुकमलोदकानि मत्स्यण्डिकागर्भाणि भोजयेत् । गव्यं च घृतं क्षी-
नवनीतं मत्स्यण्डिकाशर्करापिप्पलीचूर्णसंसृष्टं सर्पिःश्निग्धं भोजयेत् । रसल-
वणसुरातैलानि वर्जयेत् । ततस्तेषामादशा(शमा)द्वर्षात्प्रभृति प्रभूतमनुकम्पि-
ष्पा(?)षीकाविदुविताननिपानावग्रहकरगात्रापरनाभिमेह्रोत्कृष्टपादकण्ठगलकप-
लानामभ्यङ्गं सर्पिषा कारयेत् । दन्तवेष्टौ च तैलेनाभ्यञ्जयेत् । चतुराह्निकं
सर्पिःसंघसेकं कारयेत् । तेषां भारादानावध्वगमनवधबन्धनानि न कारयेत्
करतलसंस्पर्शनं च तेषां सुकुमारेण कर्मणा गमनविधिं बलमासां(?)प्रकारयेत्
शय्याभागं च बालानां करिष्येवा(?)मिश्रेण पांशुविरचितेन सुखशयनं कार-
येत् । एवं संरक्षितशरीरा बालाः सर्ववातातपसहाः फलदा भवन्ति । तृती-
यायां चतुर्थ्यां वा दशायां गमनविधिं विशेषेण कारयेत् । तत्र श्लोकाः—
एवं बालेषु कर्तव्यो दयापूर्वमनुग्रहः ।
आयुर्वर्णबलोपेता नीरोगाश्च भवन्ति हि ॥
अतोऽन्यथा न वर्धन्ते बालास्तु मनुजाधिप ।
तेषामपि न वर्धन्ते कुलेषु कुलवर्धनाः ॥
बालांस्तु रक्षयेद्यस्तु स्वपुत्रानिव नित्यशः ।
स राजा विजयी नित्यं मृतः स्वर्गे प्रमोदेत ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
बालचिकित्सा नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
१ क. ०च्छति बा० । २ क. ०द्यानेषु वस्त्रा० । ३ क. भोजयेत् । ४ क.
दन्तौष्ठौ । ५ क. ०व्यमामि० ।

२६४ पालकाप्यमुनिविरचितो— [३ क्षुद्ररोगस्थाने]
अथ सप्तचत्वारिंशोऽध्यायः ।
हस्तिशालां समासीनं गजशास्त्रार्थकोविदम् ।
दिव्यप्रभावं तपसा ब्रह्मचर्यान्मितेजसम् ॥
हुताग्निहोत्रमासीनं कृतपूर्वाह्निकक्रियम् ।
पालकाप्यं मुनिवरमङ्गराजः स्म पृच्छति ॥
रात्रौ संप्रतिपन्नो हि रूपं कुर्यादनेकपः ।
त्रसन्तो विप्रधावन्ति हस्तेनाऽऽघ्राय सर्वशः ॥
वृक्षप्राकारभित्तीश्च दन्ताभ्यां घ्नन्ति सर्वशः ।
उद्भूतनेत्रा मातङ्गा वेपमानाः सहस्तकाः ।
वियुज्यन्ते तथाकल्पाः प्राणैर्विमनसो गजाः ॥
न दोषलिङ्गं भगवन्पश्याम्यन्तं पराभवम् ।
अत्र मुह्यति मे बुद्धिः कथमेतन्मयंक्ष्यते (क्व मे ) ॥
एवमुक्तस्ततोऽङ्गेन पालकाप्यस्ततोऽब्रवीत् ।
व्याधिर्घोरो हि नागानां रात्रिक्षिप्त इति स्मृतः ॥
तस्य दोषं च सिद्धिं च रूपं चापि शृणुष्व मे ।
भाराध्वगमनश्रान्तं क्षुधार्तं व्याधिपीडितम् ॥
समापद्यन्त्येवमेते ग्रहाः संमूढचेतसम् ।
श्मशाने च वने ग्रामे पाँखण्डावसथाश्रमे ॥
रोगाभिभूतः संक्लिष्टो•••• •••• •••• •••• •••• ।
यदा च भगवन्देवालये स्थाने चतुष्पथे ॥
अमनोज्ञाश्च ये देशास्तत्राऽऽश्रपणमेव च ।
अशास्त्रोक्तेन विधिना स्थानं वा यत्र निर्मितम् ॥
सूत्रासरोह(?)वादित्रघोषाश्च विहिता मया ।
अलंकाराश्च विविधाः स्नानमाल्यानुलेपनम् ॥
तथा वैशेषिका शान्तिर्यत्र पर्वसु पर्वसु ।
यत्प्रोक्तम समेस्ताश्च परिहीणा यथा क्रिया ॥
एभिर्बहुभिरन्यैर्वा व्यभिचारपरिक्रमैः ।
छिद्रान्वेषीणि रक्षांसि संस्पृशन्त्यप्यवग्रहाः ॥
१ ख. ॰शालास्॰ । २ ख. ॰भित्त्याश्च । ३ क. ॰चक्षते । ४ ख. पाषण्डा-
वसथा॰ । ५ क. स्तराशरोह । ६ क. ॰मस्तांश्च ।

'?
Wait, why does it look like two letters?
Ah, the type is broken/smeared!
Wait, look at: 'सं' then 'रु' then 'ष्या'? That would be 4 syllables! That would violate the meter!
Wait, is it 'शंखानां'?
Wait, in 'शंखानां', शं (guru), खा (guru), नां (guru).
5(ह, laghu) 6(शं, guru) 7(खा, guru) 8(नां, guru) -> v – – – ! Perfect pathyā vaktra meter!
Wait, why did I see 'संरुष्यानां'?
Look at the glyphs:
First glyph: 'शं' - wait, the top left has a loop (श), top has a dot (ं).
Second glyph: wait, it looks like 'ख्या' or 'रुष्या'?
Wait, could it be 'तूर्याणां'?
Wait, if it's 'तूर्याणां':
तू (guru), र्या (guru), णां (guru)!
Wait, does it have 3 letters?
Let's look at the letters after पटह:
Is the first letter 'सं'?
Wait, look at:
ह, then a letter with loop at top, descending, with anusvara: looks like 'सं' or 'शं'.
Wait, look at the next shape: it has a vertical, curve... wait,

रात्रिंक्षिप्तो भवेदेवं तस्येदं लक्षणं शृणु ।
सर्वआहारनिवृत्तश्च बलाद्रुच्छति वेगतः ॥
रात्रौ मूढः संवसति दिवा स्वपिति वारणः ।
लाला मुखात्प्रस्रवति हस्तं च परिखादति ॥
तर्जयेत्सर्वभूतानि संरब्धो रक्तलोचनः ।
गृहं वृक्षं मनुष्यं वा अश्वमश्वतरं तथा ॥
वित्रासयति वेगेन घटयत्यङ्कुशग्रहम् ।
उद्विग्ननेत्रः सततं वेपते चातिमात्रतः ॥
असृग्वत्क्विवसागन्धिश्चर्मगन्धिश्च लभ्यते ।
मूर्छति व्यथते रात्रौ निमीलति निषीदति ॥
सत्त्यसाहक्ष्योति (?) स्यात्स्त्यानगात्रश्च जायते ।
एवं स दारुणो व्याधी रात्रिक्षिप्तैस्तु कीर्त्यते ॥
क्रियां तस्य प्रवक्ष्यामि तन्मे निगदतः शृणु ।
सर्पिषा स्नेहनं तस्य केवलेन समाचरेत् ॥
समालभनधूपं च भौतिकं तस्य कारयेत् ।
वारुणं गुग्गुलुं कुष्ठं हरितालं मनःशिलाम् ॥
जटिलां भूतकेशीं च सर्पिषा साधयेत्समम् ।
तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोस्तु तर्पणम् ॥
त्रायमाणां जयां नीलां लाङ्गलीं नागबलां बलाम् ।
कपित्थं च वयस्थां च वोरकं सरलं कुशम् ॥
शूकरीं जटिलां छत्रामतिच्छत्रां सकर्कटीम् ।
चारीं भूतकेशीं च स्थिरां कटुकरोहिणीम् ॥
सचोपुरुषदन्तां च वृश्चिकालीं कदम्बिकाम् ।
एतत्सर्वं समाहृत्य प्रदेहं तस्य कारयेत् ॥
कुष्ठं वचां तथा हिङ्गु जटिलां चव्यचित्रकम् ।
अलक्तं वासकोशीरमुपयुक्तं ससर्षपम् ॥
गोलोमभिश्च सघृतैः संध्याकालेषु धूपयेत् ।
करञ्जबीजं पिप्पलीं सहिङ्गु रोचको वचा ॥
बस्तमूत्रेण पिष्टैतन्नस्ये तस्य तु सेचयेत् ।
छत्रां वराहदन्त .... .... .... .... .... .... .... ॥


१ क. संचलति । २ क. ᵒतस्य कीᵒ । ३ क. चोरकं ।

.... .... हस्तिदन्तेन्द्रगोपकं मरिचानि च ।
संकल्कनि .... .... ....घृतपिष्टं तदञ्जनम् ॥
गुडो द्राक्षा च मरिचं दूर्वा श्वेताश्च सर्षपाः ।
.... ....वचाजगन्धाभिः .... .... .... .... .... .... ॥
.... .... .... .... ....स्तैलं सिद्धमभ्यञ्जनं हितम् ।
श्वेतस्य बृहती हिङ्गु भार्गी कटुकरोहिणी ॥
कम्पिल्लकं निर्दयनीलपास(?)कण्टकारिकाम् ।
ज्योतिष्मतीमतिविषां तुम्बरूणि पुनर्नवा ॥
नालिकेरं वचा कुष्ठं श्रीवेष्टकपलंकषम् ।
उभे च लशुने दद्यात्तथा पोटगलामपि ॥
विकङ्कतां *बस्तगस्त्वं(?)गोलोमीं कर्कटीं शुभाम् ।
मर्कटीं सुस्कलोमं(?)च रक्षोघ्नं च प्रदापयेत् ॥
पिष्टैर्मूत्रैरजादीनां सर्पिरेतैर्विपाचयेत् ।
तदस्य पानेऽभ्यङ्गे च हितमक्ष्णोश्च तर्पणम् ॥
भूतग्रहमपस्मारमुन्मादं चापकर्षयेत् ।
अथ सर्षपतैलेन प्रलिप्याऽऽतपसंस्थितम् ॥
अथ मातङ्गमूत्रेण परिषिश्च्याथ मर्दयेत् ।
अथवा बस्तमूत्रेण खरमूत्रेण वा पुनः ॥
गोधामूत्रेण वा गाढं यथालाभं प्रमर्दयेत् ।
रात्रिलिप्तस्य नागस्य समन्ताच परिश्रयेत् ॥
पुष्पैस्तन्दुलस्त्वैस्व(?)उशीरैः पललौदनैः ।
मत्ताय कुर्वीत बलिं ततः स लभते सुखम् ॥
(?)मनःप्रसादं यथा स्याद्भवद्विंसां(?)समाचरेत् ।
वचां हिङ्गुं वयस्थां च चण्डाली सपलंकाषम् ॥
बस्तरोमाणि सर्पिश्च त्रिफलां च महौषधम् ।
सह सर्जरसैरेतैर्बहुशो धूपयेद्गजम् ॥
हस्तिरोमाणि सर्पिश्च रोमाणि कपिबस्तयोः ।
गोश्च रोमसमायुक्तो रक्षोघ्नो धूप इष्यते ॥


  • 'बस्तगलं' इति भवेत् ।

१ क. यवस्य । २ ख. वांस्तगस्त्वं । ३ मत्तोपकृ०
३३

२५८ पालकाप्यमुनिविरचितो— .[ २ क्षुद्ररोगस्थाने-
गन्धमाल्योदनैर्विप्रानभ्यर्च्य स्वस्ति वाच्य च ।
पुण्याहं वाचयेद्वैद्यः शालायां तस्य हस्तिनः ॥
हुत्वाऽग्निमायुशेषेण वारणं समुपस्पृशेत् ।
सर्पिषा भोजयेन्नागं तैलेन च रसेन वा ॥
तत्र श्लोकः—
रात्रिक्षिप्तं गजं सम्यग्यश्चिकित्सेत्स शास्त्रवित् ।
स वैद्यो मानसान्कोशाद्रोगांश्चार्हति पार्थिवात् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
रात्रिक्षिप्तो नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
अथाष्टाचत्वारिंशोऽध्यायः ।
भगवन्तं महात्मानं पञ्चेन्द्रियसमाहितम् ।
हस्तिशास्त्रविशेषज्ञमृषीणां संज्ञितं मुनिम् ॥
कृत्वाऽग्निहोत्रं प्रवरं पालकाप्यं कृताञ्जलिः ।
पप्रच्छ सुखमासीनं रोमपादो महामतिः ॥
भगवन्केन जायन्ते मूत्रसङ्गाः सुदारुणाः ॥
निदानं च कथं तेषां भैषज्यं च महामुने ॥
एवं पृष्टस्तु भगवान्पालकाप्यस्ततोऽब्रवीत् ॥
मूत्रसङ्गान्विशेषेण शृणु राजन्पृथक्पृथक् ॥
मूत्रसङ्गा मया प्रोक्ताः संग्रहे तु समासतः ॥
समासेन यथाशास्त्रं नाम चैषां प्रकीर्तितम् ॥
तेषां निदानमुत्पत्तिं चिकित्सां च महीपते ॥
साध्यासाध्यं च नागानां यथावत्संप्रवक्ष्यते ॥
यदा तु वारणोऽत्यर्थं द्रुतमध्वनि युज्यते ॥
त्वरयाऽतिप्रवृत्तस्य न मूत्रमतिवर्तते ॥
तस्य बस्तिर्विपच्येत मूत्रवर्णस्तथैव च ॥
इमानि चापि लिङ्गानि भिन्नबस्तेर्भवन्ति तु ॥
अभीक्ष्णं कुरुते मूत्रमप्रसृष्टं मतङ्गजः ॥
आध्मातकुक्षिर्विमना ध्यानप्रस्रुतलोचनः ॥
१ क. संजितं । २ क. ॰प्रचक्षते ।

[४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदः । २६९

नाऽऽदत्ते विविधान्भोगान्यवसं नाभिनन्दति ॥
भिन्नं पुरीषं बहुशो बहुवर्णं च मेहति ॥
भिन्नबस्तिमसाध्यं तु प्रवदन्ति चिकित्सकाः ॥
इति भिन्नबस्तिः ।
चिकित्सां लक्षणं चैव साध्यानां संप्रवक्ष्यते ॥
गिरिर्जैर्यवसर्पैस्तु प्रतिच्छन्नो यदि द्विपः ॥
अत्यर्थं भोजयेद्रूक्षमपोगाद्वातकोपनम् ॥
प्र(अ)शक्तं वा प्रयुज्येत भृशं वा त्रस्यते यदा ।
मनसश्चोपतापेन वायुः कुप्यति दन्तिनः ॥
स बस्तिदेशमाश्रित्य जनयेद्गाढमूत्रताम् ।
शिरा मूत्रवहा याश्च बस्तिस्रोतःसमाश्रिताः ॥
ता वायुरभिसंरुध्य स्रोतस्तिष्ठति पीडयन् ।
स तेनाऽऽर्तो हि मातङ्गो वेपते संनिषीदति ॥
संकुच्य सर्वगात्राणि कृच्छ्रान्मेहति वारणः ।
मूत्रसङ्गार्दितो नागस्तस्य वक्ष्यामि लक्षणम् ॥
तं स्पष्टलवणां नागं प्रसन्नां प्रति पाययेत् ।
सर्पिषा वाऽपि सुस्निग्धां कृशरां भोजयेद्द्वजम् ॥
द्विपञ्चमूलकाश्मर्यमधुकं बदराणि च ।
यवान्मुद्गाङ्कुलत्थांश्च सलिलेन विपाचयेत् ॥
स्निग्धं तु कारयेच्यूषं पिप्पलीमरिचैर्युतम् ।
भोजनं दन्तिने स्नेहि प्रतिपानं च कारयेत् ॥
जाङ्गलानां रसैश्चैनं शालीनामोदनं मृदु ।
माषान्नसैन्धवोन्मिश्रं वारणं प्रतिभोजयेत् ॥
यवसानि च देयानि मधुराणि मृदूनि च ।
निवाते शयनं चास्य स्थानं चैव प्रशस्यते ॥
उष्णाम्ललवणप्रायैः स्निग्धैश्चाऽऽहारभोजनैः ।
वातजो मूत्रसङ्गस्तु प्रशान्तिं तेन गच्छति ॥
(इति) गाढमूत्री ॥
स क्षारलवणाम्लानां कटुकानां च सेवनात् ॥
उष्णानामतिमात्रं वा भोजनानां निषेवणात् ॥


१ क. °लक्षणानाङ्गं । २ क. °स्तु बस्तपानं तु कारयेत् ।

२६० पालकाप्यमुनिविरचितो— [ २ क्षुद्ररोगस्थाने-
यदा पित्तं प्रकुपितं बस्तिमासाद्य तिष्ठति ॥
स दह्यमानः पित्तेन मत्तवत्क्षरति द्विपः ॥
प्रवाह(ह्य)माणो विसृजेन्मूत्रमल्पं मुहुर्मुहुः ॥
विष्टभ्य गात्राण्यत्यर्थं प्रमेहत्यथ कूजति ॥
परिमूत्री स विज्ञेयो व्याधिर्नागस्य पैत्तिकः ॥
माषपर्णीं विदारीं च मुद्गपर्णी शतावरीम् ॥
काकोलीं क्षीरकाकोलीं जीवकर्षभकावपि ॥
पञ्चमूलं च तृणजं साम्बष्ठां चापि पोषयेत् ।
क्वाथं च पाययेन्नागं शीतलं शर्करायुतम् ॥
अग्निमन्थं श्वदंष्ट्रां च बलामतिबलामपि ।
वृक्षादनीं चांशुमतीं रम्पकं च विपाचयेत् ॥
चतुर्भागावशेषं तु शीतलं च परिस्रुतम् ।
शर्कराचूर्णसंयुक्तं वारणं प्रतिपाययेत् ॥
(?) मधुराण्यन्नपानानि *घृतेन युतं निपापयेत् ।
(?) स्रावयेच्चास्य †सिकस्थाश्चत्वार कुम्भान्समन्ततः ॥
रसांश्च पाययेन्नागं सततं चैव भोजने ।
पाययेद्गुडसंयुक्तां प्रसन्नां सीधुमेव च ॥
इति परिमूत्री .........।
अव्यायामाद्दिवास्वप्नात्क्षीरेक्षुगुडसेवनात् ॥
शीतसंसेवनाच्चापि श्लेष्मा कुप्यति दन्तिनः ।
तत्प्रकोपाच्च मातङ्गः पिष्टमेहत्वमृच्छति ॥
स प्रमेहति चात्यर्थं यवपिष्टोदकप्रभम् ।
(?) सशुक्रं वा प्रमेहं तु तनुविवरान्तरस्थितः ॥
प्रमेहं चास्य लक्षेत वेदनाबहलान्वितम् ।
सपञ्चलवणं चास्मै शार्करं मधुमेव च ॥
प्रतिपानं प्रसन्नां वा तैलयुक्तां प्रदापयेत् ।
सिद्धां यवागूं शालीनां त्रिफलाचूर्णसंयुताम् ॥
सुखोष्णां भोजयेन्नागं सर्षपस्नेहधूपनम् ।
सैन्धवं नलदं कुष्ठं पिप्पलीं विश्वभेषजम् ॥

  • 'घृतयुक्तानि' इति स्यात् । † 'विकस्थांश्चतुःकुम्भा' इति भवेत् ॥
    १ क. पाचयेत् ।

४८ मूत्रसङ्गाध्यायः ] हस्त्यायुर्वेदः । २६१
समभागानि सर्वाणि सूक्ष्मचूर्णानि कारयेत् ।
क्रौञ्चास्थिचूर्णं तत्रैव भद्रदारु च दापयेत् ॥
संयोज्योष्णोदकेनाथ वारणं प्रतिपाययेत् ।
पत्रैर्निम्बपटोलाभ्यां मुद्रयूषं विपाचयेत् ॥
सुखोष्णं योजयेच्चापि पिप्पलीचूर्णसंयुक्तम् ।
यवक्षारसमायुक्तं तैलं चैव प्रदापयेत् ॥
माषांश्च भोजयेत्स्विन्नान्व्याधि•••• •••• •••• ।
•••• •••• •••• ••••तस्मात्तु बलं तेजश्च वर्धते ॥
इति पिष्टमेही ।
•••• •••• •••• •••• •••• •••• •••• •••• •••• •••• •••• ।
✱अर्थानेतत्प्रयोगेण •••• •••• •••• •••• •••• ••••वा ॥
कट्वम्ललवणादीनां रसानां चातिसेवनात् ।
उष्णानामतिमात्रं तु भोजनानां निषेवणात् ॥
शोणितं कुपितं स्थानान्मूत्रवस्तिं प्रबोधयेत् ।
वारणा रुधिरप्रख्यं तत्प्रकोपात्प्रमेहति ॥
तथा स हन्यते शीघ्रं न तस्यास्ति चिकित्सितम् ।
रक्ताभासमदुर्गन्धमगन्धसमवेदनम् ॥
मूत्रसङ्गे प्रमेहन्ति तस्य वक्ष्यामि भेषजम् ।
शुण्ठीचूर्णं सबदरं सक्तवः फाणितं तथा ॥
रात्रिंपर्युषितं शीतं यवोदकसमायुक्तम् ।
श्लैक्ष्णं वस्त्रस्रुतं सम्यक्प्रातस्तं पाययेद्विपम् ॥
प्रमेहस्तेन नागस्य वेदना च प्रशाम्यति ।
बीजं कदल्याः शार्ङ्गेन्त्या मृद्वीका पनसानि च ॥
श्रीपर्णी च मधूकानि विशालामलकानि च ।
समभागानि सलिले मुद्रांश्चापि विपाचयेत् ॥
पिप्पलीशुण्ठिसंयुक्तं तं यूषं पाययेद्विपम् ।
शालीनामोदनं स्विन्नं यूषेणातिविवर्धितम् ॥
मध्याह्ने भोजयेन्नागं शीतं शर्करया युतम् ।
निम्बतण्डुलचूर्णस्य•••• •••• •••• ••••पाचयेत् ॥
✱ 'अधी' इति स्यात् ॥
१ क. ॰ष्णं भोज॰ । २ क. श्लक्ष्णव॰ ।

यवागूं सह दुग्धेन पाययेत्सर्षिषा युताम् ।
निस्तुषांश्च यवान्स्विन्नान्प्रदिग्धान्फाणितेन च ॥
मृदुभिर्यवसैर्युकान्बारणाय प्रदापयेत् ।
यवसान्योदकान्यस्मै कुमुदानि बिसानि च ॥
शर्करोपहतान्यस्मै वारणाय प्रदापयेत् ।
.... .... .... .... .... .... सह सर्पिषा ।
एतेन क्रमयोगेन ततः संपद्यते सुखी ॥
इति शोणितमेही ।
इन्द्रियाणां प्रतीघाताद्धेनुकाक्रमणातथा ।
वातमूत्रपुरीषाणां नित्यं संचारणादपि ॥
गुरु˙˙˙˙ ˙˙˙˙ ˙˙˙˙ ˙˙˙˙गमनात्सहसाऽध्वनि ।
अत्यध्वसेवनाच्चापि सातत्यगमनातथा ।
कर्मणा च प्रयोगाच्च लोभादपि च कर्मसु ॥
प्रतिहस्त्यभिघाताच कुप्यन्ति धातवेस्तथा ।
स्वस्थानात्कुपितास्त्वस्य दोषा वातसमीरिताः ॥
समन्ताद्बस्तिमश्रित्य जनयन्त्यश्मशर्करम् ।
सुवर्णरजताद्यानि यथा लौहानि पार्थिव ॥
( ? ) *विनिक्षिप्ताः प्रतिमुखो जात्वस्यमानानि वाऽग्निना ।
योगतो ध्म्यमानानि संयुक्तानि विभागतः ॥
एकत्वमुपगच्छन्ति स्थिरीभावं भजन्ति च ।
तथा वायुश्च पित्तं च श्लेष्मा शोणितमेव च ॥
विपच्यमाना वातेन अश्मानं जनयन्ति ते ।
अश्मना संनिरुद्धे तु स्रोतोमार्गे मतङ्गजः ॥
प्रमेहति ततः कृच्छ्राद्विष्टभ्य चरणौ महीम् ।
त्रुब्यते स भृशं हस्ती सूचीभिरिव सर्वशः ॥
स्वस्थः कदाचिद्भवति कदाचिद्दुर्मनाः पुनः ।
नाभिनन्दति शय्यां तु ग्रासद्वेषी च जायते ॥
सर्वे मूत्रविकाराश्च दृश्यन्ते तस्य हस्तिनः ।
दुश्चिकित्सितमप्येनं मूत्रसङ्गं सशर्करम् ॥

  • प्रतिमूषं विनिक्षिप्तान्यस्यमानानि' इति युक्तम् ।
    १ क. ॰तवः समाः । ख॰ ।