हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 733, कुल 742 में से
संदर्भ में पढ़ेंसर्वेषु च प्रवाहेषु क्षेत्रनीराजनासु च ॥
नागानां च प्रवेशेषु सकृष्ट्या वारुणी स्मृता ॥ ७ ॥
सुरां सुगन्धां सुरसां निशाचरमनोरमाम् ।
पूजितां देवमनुजैः प्रसन्नां दर्शयामि ते ॥ ८ ॥
वारुणीं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥
संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ९ ॥
इमे शङ्खा मृदङ्गाश्च कांस्यवाद्यानि यानि च ॥
वीणा सपाणिपणवो(वा) नार्यः परिषदं गताः ॥ ११० ॥
आहूता मङ्गलार्थं वै गायन्ते मधुरस्वराः ॥
इहैकरात्रं दिवसं विजयाय नृपस्य च ॥ ११ ॥
विविधानि च रूपाणि सम्यग्बुद्ध्वा हुताशनैः ॥
कु(क्री)यमाने(णे) निमित्तज्ञो लक्षयित्वा विनिर्दिशेत् ॥ १२ ॥
कु(क्री)यमाणं क्षयं याति योऽग्निश्चिटचिटायते ॥
छिद्रार्थं पुरुषश्चापि वल्लर्गन्धस्तथैव च ॥ १३ ॥
अनेकवर्णो भवति अभ्रकाकृतिसंस्थितः ॥
होतृदाही च यो वह्निर्द्विजानां क्षयमादिशेत् ॥ १४ ॥
(※कूजमानस्फुलिङ्गाद्योऽक्षयं राज्ये विरूपवान् ॥
धूमवाञ्छ(न)श्मवाञ्श्चाथ चर्मगन्धसमश्च यः ॥ ११५ ॥
गोमुखाकृतिसंस्थानो गवां स क्षयमादिशेत् ॥ )
अव्यक्तवर्णो दुर्गन्धिविप्रकीर्णशिखोऽनलः ॥ १६ ॥
क्षिप्रं विनाशयेद्राष्ट्रं साम्राज्यं सपुरोहितम् ॥
राज्ञीमरणमेवापि वसागन्धसमोऽनलः ॥ १७ ॥
हीनस्वनश्च दीप्ताग्निः कुणपस्येव दह्यते ॥
संबन्धस्याच्छिन्नशिखो हतमाख्याति पार्थिवम् ॥ १८ ॥
श्यामाः पापकृतिश्चापि वायसप्रतिनिश्चयः ॥
राज्ञः कोशविनाशाय युवराजवधाय च ॥ १९ ॥
एतद्धि कुरुते वह्निर्विधूमाकृतिश्च यः ॥
करे चोरसि दीही च होतृदाही च यद्भवेत् ॥ १२० ॥
※ धनुश्चिह्नान्तरगतो नास्ति पाठः कपुस्तके ।
१ क. प्रदेशेषु । २ क. होतृदाहे ।