हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 734, कुल 742 में से
संदर्भ में पढ़ें३१ गजशान्त्यध्यायः ] हस्त्यायुर्वेदः । ७१५
तत्रार्थहानिं जानीयात्तस्मिन्नुत्पातदर्शने ॥
करीषधूमसंकाश इन्द्रायुधसमुद्युतिः ॥ २१ ॥
हस्तिनां संक्षयं क्षिप्रं तद्विधो वह्निरादिशेत् ॥
कक्यः कपिसंस्थानमथ वर्चसगन्धिकः ॥ २२ ॥
भयनाशं तदाऽऽरुपाति हूयमानो हुताशनः ॥
हरिद्वारिद्रवर्णायो वेपमानो यदाऽनलः ॥ २३ ॥ .
निगडाकृतिसंस्थानस्तत्र शङ्खानिलाकृतिः ॥ ,
पाशाकृतिनिभश्चापि राज्ञो निधनमादिशेत् ॥ २४ ॥
विच्छिन्नद्रवसूर्याणामाकूता रुदितस्वरः ॥ '
वामनो यस्य गन्धौधधूमः प्रतिनिवर्तते ॥ १२५ ॥
मत्स्यशोणितगन्धस्तु तुल्यौ(?) मज्जश्च यो भवेत् ॥
राज्ञस्तत्र वधं दद्याच्छास्त्रमोक्तैरिमोर्भिषक् ॥ २६ ॥
अशुभान्येवमादीनि निमित्तानि च भूपते ॥
प्रासादादिभिरुच्चाभिः श्रीपदकलशाकृतिः ॥ २७ ॥
प्रदक्षिणावर्तशिखोऽससरश्चोदधिस्वनः ॥
शङ्खप्रभवमेघानां मेघदुन्दुभिनिस्वनः ॥ २८ ॥
सुवर्णरजतप्ररूपक्षीरपायसगन्धवान् ॥
शस्त्राणां कवचानां च ध्वजानां च महीपते ॥ २९ ॥
भास्वते तेजसाऽत्यर्थं संग्रामे जयमादिशेत् ॥
प्रहृष्टमनसश्चैव शुक्लाम्बरधरानपि ॥ १३० ॥
ईरयेयुः शुभान्भावांस्तज्ज्ञेयं जयलक्षणम् ॥
यदा त्वशुभोऽप्रर्सको''''द्धव्यवाहनम् ॥ ३१ ॥
महाभयं विजानीयात्तस्मिन्नुत्पातदर्शने ॥
सृजन्मूत्रपुरीषो वै निद्राम(?)न्दुर्मना गजः ॥ ३२ ॥
व्याधितात्तेनु भूपंश्च निर्दिशेच्छास्त्रकोविदः ॥ , .
असं भ्रान्तमना यस्तु निर्गच्छेत्तत्र वारणः ॥ ३३ ॥
यांत्रासिद्धिं विजानीयान्नृपतेर्जयलक्षणम् ॥
'.... .... .... .... प्रकृति''''पार्श्वतो वा मतङ्गजः ॥ ३४ ॥
१ क. ॰धूपसं॰ । २ क. ॰कृतिर्॰ । ३ क. तुल्यौ । ४ क. यात्रास्थितं ।
क. पृष्ठतः प्रकृतिर्यश्च पार्श्वतो ।