सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 732, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 732

३२ गजशान्त्यध्यायः ] हस्त्यायुर्वेदः । ७१३
व्यपोहस्व च पापानि इह राज्यं शतं समाः ॥
त्वया विसृष्टाः करिणो मनुष्याणां च संगताः ॥ ९२ ॥
अविसृष्टं त्वया नापि भोक्तुमर्हति कश्चन ॥
अपूतिमांसं सा रक्षमुपधापरिवर्जितम् ॥ ९३ ॥
अनारूढं हि मनुजैस्त्वममारुह्य कुञ्जरम् ॥
गृहाण च यथावत्त्वं सेनान्ये भद्रमस्तु ते ॥ ९४ ॥
संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि वै स्वाहा ॥
पादायुधं ताम्रचूडं शतपत्रं मनोरमम् ॥ ९५ ॥
विचित्रपत्रं रक्ताक्षं कुक्कुटं दर्शयामि ते ॥
कुक्कुटं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ ९६ ॥
संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि च ॥
दंष्ट्राधरं चतुष्पादं पृथिव्यामुग्रदर्शनम् ॥ ९७ ॥
करेणुगात्रं रक्ताक्षं वराहं दर्शयामि ते ॥
वराहं तु गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ ९८ ॥
संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ॥
प्रभूतवर्णं लाङ्गूलं सर्वाङ्गसुसमाहितम् ॥ ९९ ॥
धौतमामलकैः पूतैश्छागं संदर्शयामि ते ॥
छागमेतं गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥
संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ॥ १०० ॥
सहस्रमूलाव(द)नतं देवराजविलेपनम् ॥
प्रवरं सर्वमूलानामुशीरं दर्शयामि ते ॥ १ ॥
उशीरं मे गृहाण त्वं सेनान्ये भद्रमस्तु ते ॥ २ ॥
संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ॥
वैराजजां त्विमां मालां सहस्राक्षेण धारिताम् ॥ ३ ॥
संभूतां पर्वतश्रेष्ठे आहृतां गन्धमोदनात् ॥
नारायणकृतावासां बलदेवप्रियां शुभाम् ॥ ४ ॥
गृहाण मालां प्रवरां सेनान्ये भद्रमस्तु ते ॥
संप्रयच्छस्व नागानां वर्णारोग्ययशांसि च स्वाहा ॥ १०५ ॥
इमाममृतसंभूतां देवतानां मनोहराम् ॥
प्रीतिसंजननीं देवीं भूतनागनिषेविताम् ॥ ६ ॥