हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 731, कुल 742 में से
संदर्भ में पढ़ें७१२ पालकाप्यहस्तिचिकित्सिते— [ ४. उत्तरस्थाने-
भवन्त्वरोगाश्च गजाः समृद्दिं* यान्तु याजकाः ॥
संप्रयच्छन्तु नागानां बलारोग्ययशांसि च स्वाहा ॥ ७८ ॥
उत्तरेण जपेद्देवः सो(से)नान्यमभिकीर्त्य च.॥
सेनापतिं शक्तिधरं गजानां स्वामिनं प्रभुम् ॥ ७९ ॥
षष्ठीप्रियं क्रौञ्चरिपुं षण्मुखं द्वादशेक्षणम् ।
रक्तमाल्याम्बरधरं घण्टाबर्हिणकुक्कुटम् ॥ ८० ॥
त्र्यम्बकं द्वादशभुजं कार्त्तिकेयं दुरासदम् ॥
रक्तप्रतिसरामाल्यैः पताकावत्सचन्दनैः ॥ ८१ ॥
अर्चयेदुडसंपावपायसस्वस्तिकादिभिः ॥
तेषां प्रवर्तयेच्चापि समृद्धे जातवेदसि ॥ ८२ ॥
आर्शिं वास्याऽऽहुतिं तस्य भूयः स्वस्ति गजे पुनः ॥
भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥ ८३ ॥
संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि च स्वाहा ॥
पूर्वदक्षिणतो यां च दक्षिणां च दिशं तथा ॥ ८४ ॥
तथाच नैरृतीं वन्दे पश्चिमां च दिशं तथा ॥
वायव्यां चोत्तरां चैव तथा पूर्वो••••••गाम् ॥ ८५ ॥
ततोर्ध्वं विदिशं वन्दे अदितिं देवमातरम् ॥
अधश्च ये दिशश्चैव ताञ्नमस्ये कृताञ्जलिः ॥ ८६ ॥
आर्शिं वास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥
भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥ ८७ ॥
संप्रयच्छन्तु नागानां वर्णारोग्ययशांसि च ॥
स्वस्तिकापूपसंपावमधु*लाजाङ्घृतं दधि ॥ ८८ ॥
हिरण्यं च सुवर्णं च वासांस्यभिनवानि च ॥
धौरेयं च सुरां चैव वाचेषा वरवारुणी ॥ ८९ ॥
गुडमोदनमास्यं च मत्स्यान्कुल्माष एव च ॥
सर्वमेतदुपन्यस्तं ग्रहाणामग्रतोमिमाम्१ ॥ ९० ॥
पुष्टिं दद्युर्महाः सर्वे इदं भुंक्त्वा वदस्व च ॥
प्रयच्छस्व च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ९१ ॥
- 'छायान्' इति भवेत् ॥
१ क. घ. ग्रहणां ।