हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 730, कुल 742 में से
संदर्भ में पढ़ें३६ गजशान्त्यध्यायः ] हस्त्यायुर्वेदः ०२१
तथैकं सर्वतोऽनन्तान्नमिष्यामि कृताञ्जलिः ॥
दिशो दश च ये नागाः संघःकाममधिष्ठिताः ॥ ६३ ॥
भूमिधरान्भुजङ्गांश्च तान्नमिष्ये कृताञ्जलिः ॥
आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ६४ ॥
भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥
प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ६५ ॥
सरितश्च नमस्कृत्य चतुरश्च महोदधीन् ।
गङ्गां च यमुनां चैव नर्मदां च महानदीम् ॥ ६६ ॥
गोदावरीं भीमरथीं कृष्णां वेणां च निम्नगाम् ॥
विपाशां च वितस्तां च चन्द्रभागामिलावतीम् ॥ ६७ ॥
तापीं च मनसस्तापीं कौशिकीं गण्डकीमपि ॥
कुर्वन्तु स्वस्ति नागानां निर्वाणं च रणे तथा ॥ ६८ ॥
आपगाः सरितश्च स्युर्द्देशेषु नगरेषु च ॥
आशिं चास्याऽऽहुतिस्तेषां भूयः स्वस्ति गजे पुनः ॥ ६९ ॥
भवन्त्वरोगाश्च गजाः समृद्धिं यान्तु याजकाः ॥
प्रयच्छन्तु च नागानां वर्णारोग्ययशांसि च स्वाहा ॥ ७० ॥
भूमी(मि)धरानभिमतान्महातेजान्महाबलान् ॥
वन्दे वन्द्यान्महाभागान्शुचिर्भूत्वा कृताञ्जलिः ॥ ७१ ॥
अनन्तं प्रथमं वन्दे सर्वलोकाभिपूजितम् ॥ ७२ ॥
कर्कोटकं धूमशिखं वासुकिं च महाबलम् ॥
कालिकं चात्र वन्दित्वा बलमुत्पलमेव च ॥ ७३ ॥
हरिं च विद्युज्जिह्वं च कम्बलाश्वतरावुभौ ॥
उभयं च तथाऽऽदित्यं जिह्वां चोपरि लेढि च ॥ ७४ ॥
प्रपतन्तः.... ....श्वापि लाङ्गुलेन निषेवते ॥
अणुर्नागो महानागः पञ्चशीर्षो महाबलः ॥ ७५ ॥
नागो मणिग्रहश्चैव ये चापि धरणीधराः ॥
कुर्वन्तु स्वस्ति नागानां निर्वाणं ते रणे तथा ॥ ७६ ॥
अन्तर्भूमौ च ये नागा ये चापि दिशि गोचराः ॥
आशिं चास्याऽऽहुतिं तेषां भूयः स्वस्ति गजे पुनः ॥ ७७ ॥
१ क. ०न्तः करैश्चापि ।