हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 591, कुल 742 में से
संदर्भ में पढ़ें• ५७२ पालकाप्यमुनिविरचिते— [ ४ उत्तरस्थाने-
अरोचकार्पिता ये स्युरामासवविकारिणः ॥
मन्दाग्नयश्च ये नागास्तथा च कलशाङ्कुशः ॥ ९३ ॥
तेभ्यो कादम्बरी देया शारदेभ्यो विशेषतः ॥
असंघातं तथाऽम्लं च लवणं च विवर्जितम् ॥ ९४ ॥
अग्निना दृषितं यच्च यच्च भाजनदूषितम् *।
एभिर्दोषैर्विमुक्तानि मद्यानि कांस्यपेषयेत् ॥ ९५ ॥
यत्स्वस्थं तैलवर्णं स्याद्धृतमण्डाभं च यत् ॥
• करवीरोत्पलाम्भोजतुल्यगन्धं रमस्कृतम् ॥ ९६ ॥
आस्वादे तिक्तमधुरं प्रकृतित्थं बलान्वितम् ॥
ईदृशं दापयेन्मद्यमदुष्टं दोषवर्जितम् ॥ ९७ ॥
तत्र दोपानवस्थांश्च दुष्टमद्यस्य पार्थिव ॥
पानोपाङ्गमथैतेषां द्विषाय प्रयतात्मनः ॥ ९८ ॥
विदाह्योऽम्लका कुर्याद्रोमहर्षं विशीतिका ॥
त्वग्दोषं पूयिता कुर्यात्प्रणां व्यक्ता स्वरोब्दकम् ॥ ९९ ॥
उष्णवाताभिसंतप्ता दना पित्तं प्रकोपयेत् ॥
अथ मद्यमदीर्घा स्यात्कण्ठरोगः परनीजकम् ॥ २०० ॥
बाष्पदुष्टा तथाऽऽध्यानं श्वयथुना स्वादुवर्जिता ॥
एवमेते सुरादोषास्तत्र मद्यप्रदाहृताः ॥ १ ॥
सुरा श्रमं नाशयति श्लेष्माणं चापकर्षति ॥
दीपयेज्जठरं चास्य भुक्तं चास्यामलोपमम् ॥ २ ॥
स्पष्टं करोति हृदयंमाहारं चाभिनन्दति ॥
मनोहर्षकरी चैव शक्तेन्द्रियप्रबोधिनी ॥ ३ ॥
सुराया इति ते गज-गुणदोषाः प्रकीर्तिताः ॥
हस्तिभ्यो दापयेद्राजन्वश्यार्थं वा वपुष्टये ॥ ४ ॥
मद्योपयोगे नागानां (उक्तोऽयं विहितो विधिः ॥
अतः परं प्रवक्ष्यामि मेदकस्य गुणोदयम् ॥ २०५ ॥
गजान्प्रवरकण्ठीनान्मेदकः सह संपुतः(?) ॥
बृहत्त्वस्यच नागानां) मदं चैव विवर्धयेत् ॥ ६ ॥
• अनुचितद्रव्यानल्यो चापि पाठः कपुस्तके ।
१ क. 'च यत्' ।