हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 588, कुल 742 में से
संदर्भ में पढ़ें१ अवपातनिर्याणाध्यायः ] हस्त्यायुर्वेदः । ५९९
शोणितस्य जलं योगिस्तेजसा तच्च रज्यते ॥
तच्च भुक्तवते देयं विधासेवेन शंसितम् ॥ ४८ ॥
पश्चात्तदाने शुश्रूष्य हेतुं स्पष्टनिदर्शनम् ॥
बह्विन्धनसंभारं कृत्वा वह्निर्नियोजितः ॥ ४९ ॥
भस्मी करोति क्षपणं तद्वत्पचति भोजनम् ॥
आहारोपचितांश्चैव दोषांन्नास्त्यत्र संशयः ॥ ५० ॥
न चाऽऽहारोऽन्यसत्त्वानां गजाहारेण संमितः ॥
स्तम्भकृन्नागशुश्रूषणशब्दादिभिर्गुणैः ॥ ५१ ॥
विधायोगश्च सुतरां लवणेन विना कृतः ॥
अभक्ष्य इव पक्षाणि बहुदोषकरो भवेत् ॥ ५२ ॥
कोपयत्यनिलं क्षिप्रमजीर्णं जनयत्यपि ॥
पक्तृपांश्चाशनैका मुक्ता तद्देवाल्वणा विधा ॥ ५३ ॥
तस्माल्लवणदाने तु न प्रमुह्येत्कदाचन ॥
रोमकं सैन्धवं चैव विडं सौवर्चलं तथा ॥ ५४ ॥
स्वर्जिकोऽथ यवक्षारं सामुद्रमथवोद्भिदम् ॥
अष्टावेतानि करिणां लवणांनि यथार्विध ॥ १५५ ॥
दशाहेाणे दशपलं सामुद्रस्यैव भीषप ।
शेषाणां पञ्चपालिकमशनं विद्धि पार्थिव ॥ ५६ ॥
इक्षुः क्षीरं घृतं मांसं वसा मेदक एव च ॥
उत्कारिका वेसवारो मेदक्रेन समो तथा ॥ ५७ ॥
नैवद्द्याप चैतानि दद्यात्क्षीणाप वा पुनः ॥
नवग्रहं दृश्यमानमृक्षयं प्रांत लम्भयेत् ॥ ५८ ॥
गुडतण्डुलकेर्पूर्वा प्रद्यात्प्रथमेऽहनि ॥
केवलैः प्राकृतैर्विध्यो लोध्र भक्ष्यतस्सतः ॥ ५९ ॥
पलं पलं वर्धयते यावच्च कुडवो भवेत् ॥ •
ततो द्विपलिका वृद्धिस्तण्डुलानां गुडस्य च ॥ १६० ॥
अत्र त्रिगुणितं देयं तस्माच्चापि चतुर्गुणम् ॥
अनेन क्रमयोगेन(ण) विंशद्द्वाविंशाढकम् ॥ ६१ ॥
अतः प्रस्थाद्विवृद्धिः स्याद्यावत्पूर्णा विधा भवेत् ॥
कृत्वा गुडस्य तु पले प्रथमे तण्डुलकवे ॥ ६२ ॥
७९.