हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 587, कुल 742 में से
संदर्भ में पढ़ें१९० गजा** [२ उपस्थाने-
वातोपहृतवेगाश्च ये चान्येऽङ्गेऽधिकशूलिनः ॥
ये च वातबलाद्धाता दीर्घाध्वा ये च वारणाः ॥ ३३ ॥
बहुसत्त्वापि तन्द्यन्ते ये च भारेण कुञ्जराः ॥
तप्तां हुतवहे बालं तेषां पाद्यमथोजने ॥ ३४ ॥
तैलं तेभ्यः प्रदातव्यं ये चापि कृमिकोष्ठिनः ॥
धेनुकानां च विहितं तैलमेव महीपते ॥ १३५ ॥
तासां च बहुसिक्तानामेकान्ताभ्यस्तमस्यते ॥
तैलं वातहरं प्रोक्तं स्फुटमांसविवर्धनम् ॥ ३६ ॥
कृमिकोष्ठप्रशमनं धातुवृद्धिकरं तथा ॥
उत्साहजननं चैव तेजोबलविवर्धनम् ॥ ३७ ॥
मर्दितो येन विविधैर्दृढो मुञ्चीत वारणः ॥
स्नेहेन सहिता हस्ता सम्यग्गूढं रयन्ति शिवम् ॥ ३८ ॥
वर्जयेच्चापि मन्दाग्निं सम्यक्परिजयत्यपि ॥
तैलं यत्रोद्धृतं पद्य ततःशतपत्रकम् ॥ ३९ ॥
भवेत्स्वादुरसं पद्यं तेन पुष्टिः प्रजायते ॥
पञ्चाम्ले भवेत्स्निग्धं कृमिघ्नं दृष्टिपदं च यत् ॥ १४० ॥
यद्वा कषायसंयुक्तं पञ्चाम्लरसदूषितम् ॥
अतीसारकरं ज्ञेयं हैमवर्णकरमेव च ॥ ४१ ॥
एवंविधं तु वर्जयेत्सेकं नागस्य पार्थिव ॥
अतो लवणदानस्य गुणान्वक्ष्यामि भूपते ॥ ४२ ॥
अरिष्टं चैव पक्तांश पच्छाद्य चास्य प्रतापयेत् ॥
क्षोणितं वर्जयेच्चास्य वातं चास्यानुलोमयेत् ॥ ४३ ॥
वातस्तेजोऽस्थिमज्जानो विवर्धयति दन्तिनाम् ॥
शोषयेन्मूत्रवस्तिं च पवनं चाभिनन्दयेत् ॥ ४४ ॥
व्याधिप्रशमनं श्रेष्ठं तेजोबलविवर्धनम् ॥
छेदनं पाचनं चैव वमनं रक्तवर्धनम् ॥ १४५ ॥
लवणं दीपयेदग्निं पथ्यमाहारमेव च ॥
*रुचिपथ्ययोरविज्ञानं निसर्गं हि लवणं भवेत् ॥ ४६ ॥
कृमिकोष्ठप्रशमनं वातरोगानिवर्हणम् ॥
लवणं मजघित्वा तु जलं पिबति वारणः ॥ ४७ ॥
- रुच्योः इति सकलदर्शपाठः ।