सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 584, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 584

१ अन्नपानविधिरध्यायः ] हस्त्यायुर्वेदः । ५६५
संस्कृतमसंस्कृतं चैव द्विविधं संप्रवक्ष्यते ॥
तत्र संस्कृतमेवाग्रे प्रवक्ष्यामि यथाक्रमम् ॥ ९२ ॥
भर्जं मांसरसं स्नेहं कतकं च तथा दधि ॥
संस्कृतं त्वेकतः प्रोक्तमसंस्कृतमतः शृणु ॥ ९३ ॥
एतैर्विवर्जितं त्वन्यं तण्डुलाद्य नराधिप ॥
वक्ष्यामि भक्ष्यं नागानां तन्मे निगदतः शृणु ॥ ९४ ॥
कुवलं पल्लवं भङ्गं शाखान्वृक्षमूलमेव च ॥
तृणानि चेति जानीयाद्भक्ष्यं राजन्विशेषतः ॥ ९५ ॥
पेयान्यपि च वक्ष्यामि यानि नागाः पिबन्त्यतः ॥
यवागूक्षीरमद्याश्च रसाश्च विविधा नृप ॥ ९६ ॥
स्नेहाः सर्वे महीपाल संस्कृतासंस्कृताश्च ये ॥
पंवकं घृतं चैव महास्नेहश्च पार्थिव ॥ ९७ ॥
तैलं पूतं पबकं च वसा च गृहतं स्मृतम् ॥
स्नेहाः सर्वेऽथ मांसानि मेदोमज्जारसास्तथा ॥ ९८ ॥
वसा चाप्येकतः पक्त्वा महास्नेह इति स्मृतः ॥
पेयान्येतानि चोक्तानि लेहान्यपि विबोध मे ॥ ९९ ॥
उत्कारिका बेसवारा मेदकाश्च नराधिप ॥
उत्कारिकां प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १०० ॥
[विपाकबीजं खर्जूरीं मस्तकं पनसानि च ॥
पद्मोत्पलमृणालानि घृतेन सह पाचयेत् ॥ १ ॥
मत्स्यण्डिका शर्करा वा तत्र देया यथाक्रमम् ॥
ह्रस्वगोपुच्छचूर्णानि पिप्पलीस्तण्डुलास्तथा ॥ २ ॥
घृते गुडं च संपोष्य पाचयेन्मतिमान्भिषक् ॥
सक्तवश्च सुहृष्टा वै क्षौद्रं वाऽप्य कतेडकः ॥ ३ ॥
तथा पुष्करबीजानि ह्रस्वचूर्णानि कारयेत् ॥
घृतेन मरिचैश्चाऽपि युक्त्वा सम्यग्विपाचयेत् ॥ ४ ॥
एतद्दद्यात्तु नागस्य कायाग्निवलवर्धनम् ॥
इत्युत्कारिका ॥
अतः परं प्रवक्ष्यामि बेसवारं महीपते ॥ ५ ॥
१ स. घ. बब्बकं ।