सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 585, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 585

५६६ पालकाप्यमुनिविरचितो— [ ४ उत्तरस्थाने—
प्रातं निरस्य सुस्विन्नं पुनर्हषद्वि चूर्णितम् ॥
पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् ॥ ६ ॥
एकस्थं पाययेत्तन्मद्वेसवारस्ततः स्मृतः ॥

  • ........... —(द्वितीयमपि मे शृणु) ॥ ७ ॥
    एतेनेव च कल्पेन रसा संयोज्य पाययेत् ॥
    एतद्दद्यानु नागानां बलमांसविवर्धनम् ॥ ८ ॥
    इति वेसवारः ॥
    मेदकांश्च प्रवक्ष्यामि नागानां बलवर्धनान् ॥ ९ ॥
    गोधमानथ सुस्विन्नान्घृतांश्चभ्रगमायुतान् ॥
    गुडेन द्विगुणीकृत्य देयो बलविवर्धनः ॥ १० ॥
    विडङ्गतैलमद्यांश्च तैलेन सह योजयेत् ॥
    द्वितीय एष विक्षेपः कृमिकोष्ठावनाशनः ॥ ११ ॥
    सुस्विन्नं यवकल्पानं निजशृंगसमन्वितम् ॥
    क्षीरं घृतं गुडं चैव एकस्थं पाययेद्बुधः ॥ १२ ॥
    एवं दद्यानु नागेभ्यो बलमांसविवर्धनम् ॥
    इत्येते मेदकाः प्रोक्ताः वारणानां यथाक्रमम् ॥ १३ ॥
    यस्माद्बलं वर्धयन्ते मांसं मेदोऽथ शोणितम् ॥
    मेदका इति निर्दिष्टास्तस्मादेते नराधिप ॥ १४ ॥
    इति मेदकाः ॥
    स्यात्पञ्चविंशतिपलः स्नेहद्रव्यप्रभाजनः ॥
    पञ्चविंशत्यधः प्रायो मेदके परिणामतः ॥ १५ ॥
    शेषाणां पञ्चषष्टिस्तु रसानामुपद्रपद्यते ॥
    क्षीरस्य तु त्रयः प्रस्थाः पयसः प्रकीर्तिताः ॥ १६ ॥
    रसद्रोणं च दातव्यं दशभागांशकं तथा ॥
    स्नेहस्याष्टांशकं तस्या-वोनमस्यार्धमुद्ग तथा ॥ १७ ॥
    मेदकस्याऽऽढकं देयं पञ्चप्रस्थम एव च ॥
    श(स)क्तु कोष्ठाढकं चैव गुडस्याष्टपलं तथा ॥ १८ ॥
  • कखपुस्तकयोः ‘ ’ इति त्रुटिचिह्नं वर्तते । अपुस्तके तु त्रुटिचिह्नं नोप-
    लभ्यते । † ‘धनुर्विद्धयन्त्यान् ज्यो नास्ति पाठः कपुस्तके ॥

१ क. 'इडांश्चापि घ' ।