सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 583, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 583

[५६४] पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-

विहरन्तश्च सरितः स्वैराहारा मतङ्गजाः ॥
ते स्वैरं तृणपुष्टास्तु स्वैरगाश्चैव वारणाः ॥ ७७ ॥
गच्छन्ति नेपुणं स्वैरं वने येषाऽऽश्ववत्यपि ॥
वक्षाः स्वैरं प्रजायन्ते तृणास्तृणगुणैः सदा ॥ ७८ ॥
तृणेन तेजो भवति तृणात्सम्भवतीन्द्रियम् ।
सर्वे मृगास्तृणचरास्तृणगाश्चास्तृणप्रियाः ॥ ७९ ॥
तृणेन नागा जीवन्ति वने ग्राम्येऽपि वा सदा ॥
· भुक्त्वा नरो हि मृष्टाशं किञ्चित्स्वादेद्यथोपरि ॥ ८० ॥
तथा तृणेन तृप्तानां किञ्चिदेवानुभोजनम् ॥
आसवैः स्नेहपानैर्वा लेशां विविधैर्हितैः ॥ ८१ ॥
नस्यबस्तिक्रियाभिश्च भेषजैश्च पृथग्विधैः ॥
न हि धारयितुं शक्यास्तृणहीना मतङ्गजाः ॥ ८२ ॥
तृणैर्विना न जीवन्ति तृणमात्रव्यपा गजाः ॥
तस्मात्तृणेन हीनानां जीविते संशयो ध्रुवम् ॥ ८३ ॥
तत्समुत्था बलप्रस्तेजोवद्गुणा गप ॥
नतापप्रतृणाहारा श्लक्ष्णाशिनः सदा ॥ ८४ ॥
वने दोषा न गच्छन्ति विष्ठा कवलवर्जिताः ॥
अत्यन्तोचितभावाद्धि मातङ्गानां तृणं हितम् ॥ ८५ ॥
यथा कवलसंयुक्तं कुटरं पल्लवानि च ॥
बन्धनसंनिरुद्धा ग्राम्याः परवशं गताः ॥ ८६ ॥
अभ्युद्धर्तुं न शक्यन्ते परस्तेनेव केनचित् ॥
स्नेहक्षीराम्लरसैर्विधाय बलतोऽपि च ॥ ८७ ॥
सम्यगात्मनिरोधेन भोजनेविविधैरपि ॥
विविक्ते गजा पुष्टाः कर्तव्याः पृथिवीपते ॥ ८८ ॥
भूयोऽङ्गराजः पप्रच्छ पालकाप्यं महामुनिम् ॥
चतुष्प्रकारो यः प्रोक्तस्त्वयाऽऽहारो महामुने ॥ ८९ ॥
स कथं दन्तिने देयस्समयाऽऽहारस्य पृच्छतः ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ ९० ॥
भोज्यं भक्ष्यं च लेह्यं च पेयं चेति चतुर्विधम् ॥
तत्र भोज्यं भवेद्धस्त्यानान्नार्थं तृणविस्तरम् ॥ ९१ ॥

१ ख. दारुणाः ।