हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 578, कुल 742 में से
संदर्भ में पढ़ें१ अङ्गप्रमाणाध्यायः ] हस्त्यायुर्वेदः । ५६९
सपादे द्वादशौ च आयामस्तस्य दन्तिनः ॥
द्वादशौ विप्रसिद्धश्च नाहोऽप्यस्य विनिर्मितः ॥ ४ ॥
अङ्गुष्ठानि च चत्वारि पञ्चमांशो यवस्य च ॥
स्मृतोत्तमस्य नागस्य वर्षवृद्धिः समुच्छ्रये ॥ ५ ॥
पञ्चाङ्गुलं सपञ्चमं यवमात्रश्च पञ्चमः ॥
तस्य स्याद्वर्द्धरायामे परिणाहे षडङ्गुला ॥ ६ ॥
अहीनाङ्गस्य नागस्य जन्मना वा विरोधिनः ॥
समवेतत्प्रमाणं स्याद्विषमं स्यादतोऽन्यथा ॥ ७ ॥
वृद्धाः क्षीणाश्च बालाश्च न निर्देश्या हि रूपतः ॥
बालः समस्तरूपश्च क्षीणो वृद्धश्च हीयते ॥ ८ ॥
पूर्वकायेऽधिको यश्च यश्च पश्चात्प्रपीडितः ॥
विक्षिप्तातिसंश्लिष्टो हीनग्रीवामुखस्तथा ॥ ९ ॥
यो विशालशिरोपर्याच्छत्रिकोरसित(?)स्तथा ॥
श्रेयस्तथापि कुब्जश्च पृष्ठतश्च समुन्नतः ॥ १० ॥
वायसो वपहीनश्च विकटोऽत्यर्थमाहितः ॥
अल्पायुं दीर्घगात्रश्च अप्रमेयाश्च षोडश ॥ ११ ॥
विपरीतगुणा येऽन्ये निर्माणे चाविरोधिनः ॥
तेषु मानं प्रयोक्तव्यं समस्तगुणयोगतः ॥ १२ ॥
तदर्थं चेव मातव्यो नागो वेद्यैः प्रमाणतः ॥
यतः सुस्थितसर्वाङ्गः समादेशाश्रयो गजः ॥ १३ ॥
अनुक्तो मानमतो मातव्यो दण्डरज्जुभिः ॥
तत्रस्थस्याग्रयोः कार्यो दण्डस्तिर्यक्प्रतिष्ठितः ॥ १४ ॥
ग्रीवासंस्थेन दण्डेन ऊर्ध्वं दण्डं परं स्पृशेत् ॥
स च येन प्रदेशेन दण्डो दण्डं च संस्पृशेत् ॥ १५ ॥
*ताप्यस्तत्रैव तस्यास्य प्रमाणं वर्ष्मजो भवेत् ॥
तस्य षड् चेव तन्न स्पृः पञ्चैव परिणिष्ठिताः ॥ १६ ॥
उत्तमाधममध्यानां वयसांमाने च क्षयः ॥
तिर्यग्दण्डायतः स्थाप्यः कुम्भयोश्चैकयोगजः ॥ १७ ॥
- ‘वाप्य’ इति ‘स्वाप्य’ इति वा भवेत् ॥
१ क. ‘स्व चाप्यना वा विरोधिनः ॥’ ॥ प० । २ क. अप्रमाणीयश्च कु० । स-
मधाप्रधारि कु० ।