सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 577, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 577

५९८ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
वसायाश्च प्रमाणं तु निशितं वक्ष्यते ततः ॥
मज्जा चैव यथा प्रोक्ता तन्मे श‍ृणु महीपते ॥ ८४ ॥
वेत्रवेत्रासयोर्मध्ये दद्यान्मज्जावसे भिषक् ॥
महिषक्षवराहाणां ये चान्ये वनचारिणः ॥ ८५ ॥
नक्रमत्स्योरगाणां ये च स्युर्जलचारिणः ॥
मज्जा तेभ्यः प्रदातव्या वसा वाऽपि महीपते ॥ ८६ ॥
रोगाः सम्यक्प्रशाम्यन्ति बलं तेजश्च वर्धते ॥
.मांसोपचितसर्वाङ्गैर्लाघवं चास्य जायते ॥ ८७ ॥
मज्जासु विधिरित्येष गुणाश्चापि प्रकीर्तिताः ॥
क्रमः स एव पूर्वोक्तो यथोक्तः सर्पिषो यथा ॥ ८८ ॥
समाचरेद्यथोद्दिष्टं वैद्यः शास्त्रविशारदः ॥
पयसां विविधानि वारणं तायपत्रिकम् ॥ ८९ ॥
भेरनीपानि ज्ञानीपान्युतान्येतानि पार्थिव ॥
उत्कलं रोहिषं चैव झंणिपारं तथैव च ॥ ९० ॥
उप(त्य)लं पल्लवं चैव पञ्चान्यद्यानुकं स्मृतम् ॥
संघातार्थं प्रदेयं स्यान्स्नेहपीतेषु दन्तिषु ॥ ९१ ॥
इति स्वबुद्ध्या विनयेन निष्ठया-
नृपाय तेषां विधिवत्प्रपादितम् ॥
करोत्यरोगं बलिनं च वारणं
स चापि राजा द्विपपानुपास्तवान् ॥ ९२ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने चतुर्थे उत्तरस्थाने स्नेह-
पानविधिकथनं नाम द्वितीयोऽध्यायः ॥ २ ॥
──────────────────────
अथ तृतीयोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
अन्नपानविधिं कृत्स्नं श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥
भेदकोष्ठकमुख्यानां घृततैलरसस्य च ॥
गुणदोषाश्च ये तत्र तन्मे व्याख्यातुमर्हथः ॥ २ ॥
ततः प्रोवाच भगवान्पालकाप्यो महामुनिः ॥
जातमात्रोपभोग्याद्यः पादहीनादरादिकः ॥ ३ ॥