हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 572, कुल 742 में से
संदर्भ में पढ़ें२ स्नेहपानविध्यध्यायः ] हस्त्यायुर्वेदः । ५६३
आषाढे समतिक्रान्ते श्रावणे समुपस्थिते ॥
बहुले च व्यतिक्रान्ते शुक्ले स्नेहं प्रदापयेत् ॥ ९ ॥
हस्तश्रवणपुष्येषु चित्रायामश्वयुज्यपि ।
दशम्येकादशीद्वित्र्यष्टम्यादिषु तिथिष्वपि ॥ १० ॥
बलाभिजित्सावित्रमैत्रेषु विजयेषु च ॥
वर्जिता ऋतवो ये च तैलपानस्य तान्शृणु ॥ ११ ॥
ग्रीष्मे हेमन्तकाले च तैलपानं न दापयेत् ॥
उद्योगे पूजितावेतौ ऋतू विजयकाङ्क्षिभिः ॥ १२ ॥
दृष्टो वा विजयार्थं यो गजो राज्यान्तरं व्रजेत् ॥
पीड्यमानोऽपि चान्येन राजा योद्धुं समुत्सहेत् ॥ १३ ॥
हेमन्ते सस्यसंपूर्णा मेदिनी शीतलोदका ॥
पत्त्यश्वरथनागानां भवेच्चापि सुखावहा ॥ १४ ॥
लोभाद्वा यो व्रजेद्यात्रां भयाद्वाऽप्यथवा च यः ॥
अकस्मात्संप्रयोगात्तु व्यापत्तिर्द्विरदे धुवा ॥ १५ ॥
महामात्रैस्तदा नागा विनीयन्ते च कर्मसु ॥
शिशिरे घर्मकाले च वारणानां नराधिप ॥ १६ ॥
घर्मकाले च ये दोषाः स्नेहपानस्य तान्शृणु ॥
ग्रीष्मे सूर्यांशुभिर्दग्धा वृक्षा गुल्मास्तथैव च ॥ १७ ॥
मेदिनी दवदग्धा च संक्षिप्तपवसोदका ॥
निदाघजलरोधे च स्नेहतृष्णा प्रवर्तते ॥ १८ ॥
क्षिप्रं प्राणा विपद्यन्ते तृणाग्निरिव पार्थिव ॥
इत्येतैः कारणै राजन्नृतुग्रीष्मो विगर्हितः ॥ १९ ॥
तस्मात्प्रावृषि तैलं तु वारणेभ्यः प्रदापयेत् ॥
तृणानि हरितान्यत्र स्युर्वनस्पतयस्तथा ॥ २० ॥
पूर्णा वापी तडागानि मेदिनी सस्यसंवृता ।
शोभते हरतेऽत्यर्थमिन्द्रगोपकदर्दुराः ॥ २१ ॥
न चातिशीतं नात्युष्णं न च युद्धं न कर्म वै ॥
सर्वावस्थाश्च राजानो जलपूर्णा च मेदिनी ॥ २२ ॥
स्वादुपानेादके पथ्ये विचित्रपवसावृते ॥
स्थाने ग्रामे शिवे रम्ये स्नेहपानं समाचरेत् ॥ २३ ॥