हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 571, कुल 742 में से
संदर्भ में पढ़ें५६२ पालकाप्यमुनिविरचितो- [ ४ उत्तरस्थाने-
नागं ततः स्वलंकृत्य बलिष्ठं व्याधिवर्जितम् ॥
प्रशस्ते तिथिनक्षत्रे पार्थिवाय प्रदर्शयेत् ॥ १६० ॥
अथ क्रमेण कुर्वीत रक्षां बद्ध्वाऽध्वकर्मसु ॥
स्नेहं ततोऽस्य जनयेन्मदं च मदवर्धनैः ॥ ६१ ॥
तैलक्षीरघृताद्यैश्च रोगसंशमनैः पुनः ॥ ६२ ॥
इत्यङ्गाधिपनोदितेन मुनिना हेत्वर्थयुक्ता स्मृता
पीनी प्रीतिगुणेन वारणहिता मात्रोपचारक्रमैः ॥
यां पीत्वाऽऽतपशीतवृष्टिपवनावत्यर्दितानां क्रमो
नीरोगो बलवान्गजः श्रु(स्रु)तमदो भूत्वाऽथ हन्याद्रिपून् ॥ १६३ ॥
इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे चतुर्थ
उत्तरस्थाने स्नेहपानं नाम प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽधपायः ।
भङ्गो हि राजा चम्पायां हस्तिशास्त्रविशारदम् ॥
पालकाप्यं महाप्राज्ञं सुखासीनं स्म पृच्छति ॥ १ ॥
स्नेहपानं तथा कार्ये वारणानां महामुने ॥
सर्पिर्वाऽपि कथं देयं वसा मज्जाऽपि वा कथम् ॥ २ ॥
कस्मिन्दिने वा मासे वा तैले मात्रा च का स्मृता ॥
जीर्यमाणं कथं तैलं विद्याज्जीर्णं कथं पुनः ॥ ३ ॥
अजीर्णायां(?) कथं कुर्यादेतदिच्छामि वेदितुम् ॥
उपचारप्रयोगं च निष्ठा तैलस्य वाऽऽदितः ॥ ४ ॥
माननिर्माणयोगं च यवसे वाऽपि को विधिः ॥
आहारं च कथं दद्यात्तैलपीताय दन्तिने ॥ ५ ॥
शय्याभङ्गं कथं कुर्यात्कथं च रसभोजनम् ॥
को घृतस्योपचारश्च देयो वा कीदृशो गजे ॥ ६ ॥
विधार्य सम्यग्बुद्ध्या हि भगवन्वक्तुमर्हसि ॥
पालकाप्योऽङ्गराजेन तु पृष्टस्त्विदमब्रवीत् ॥ ७ ॥
शृणु राजन्निदं सर्वं यथावदनुपूर्वशः ॥
सर्पिस्तैलं वसा मज्जा यस्मिन्काले प्रदीयते ॥ ८ ॥