सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 570, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 570

१ स्नेहपानाध्यायः ] हस्त्यायुर्वेदः । ५५१
घनं स्निग्धं च यस्य स्याच्छकृत्पाण्डु विवर्णतः ॥
मृत्तिका शर्करा वाऽपि यत्र मिश्रा न दृश्यते ॥ १४५ ॥
एकवर्णमदुर्गन्धमविदग्धमनप्लवम् ॥
पुरीषं दृश्यते यस्य स नागो रोगवर्जितः ॥ ४६ ॥
तैले दत्ते घृते दत्ते स्नेहं यद्यतिसार्यते ॥
पञ्चाहमथसप्ताहं कदुष्णं स पिबेज्जलम् ॥ ४७ ॥
दर्भमूलपलान्यष्टौ सलिले क्वाथयेच्छुचौ ॥
एतत्स्निग्धाय पानीयं देयं वातानुलोमनम् ॥ ४८ ॥
किंचित्स्निग्धपुरीषाय यवागूं पाययेद्भिषक् ॥
यदा यच्च प्रयोक्तव्यं स्नेहपानाय तच्छृणु ॥ ४९ ॥
यावद्रोणो भवेन्नागस्तावत्प्रस्थान्सुसंस्कृतान् ॥
तन्दुलानां प्रमाणेन यवागूं पाययेद्भिषक् ॥ १५० ॥
एतैश्च मुद्गसहितै रनयैव हि मात्रया ॥
कृत्वा यवागूं नागाय त्र्यहं भूयः प्रदापयेत् ॥ ५१ ॥
तन्दुलाद्याढके भुक्तं मुद्गानामाढके रसम् ॥
कृत्वा नागाय दातव्यमस्नेहलवणं त्र्यहम् ॥ ५२ ॥
ततो भक्तचतुर्भागं चतुर्भागरसप्लुतम् ॥
लवणस्य चतुर्भागं चैकाहं प्रतिभोजयेत् ॥ ५३ ॥
विंधार्थं त्वथ भुञ्जीत रसार्धेन मतङ्गजः ॥
लवणस्योचितस्पार्धयोगं चास्मिन्प्रदापयेत् ॥ ५४ ॥
रसस्य तु यथोक्तस्य विधाया लवणस्य च ॥
पादहीनं प्रदातव्यं समस्तं भोजयेत्कृतम् ॥ १५५ ॥
धान्याम्लैर्दाडिमाम्लैश्च दध्यम्लैः स्वरसंयुतम् ॥
भक्तं त्र्यहं त्र्यहं दत्त्वा प्रसन्नां पाययेत्त्र्यहम् ॥ ५६ ॥
यथापूर्वं समादिष्टो भोजनस्य विधिक्रमः ॥
रसजातेषु सर्वेषु *तया कार्यक्रमो भवेत् ॥ ५७ ॥
यवसस्य चतुर्भागं स्नेहस्यान्ते प्रदापयेत् ॥
ततोऽर्धमर्धस्यार्धेन हीनं सर्वक्रमात्ततः ॥ ५८ ॥
स्नेहे निवृत्तमात्रे तु गात्राभ्यङ्गो विधीयते ॥
विधां समस्तां च तथा शीतं चाम्भोऽवतारयेत् ॥ ५९ ॥

  • 'तथा' इति सूचितम् ।