सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 455, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 455

०३६ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने—
भन्तरिक्षात्मकानि स्युर्गर्भस्येह महीपते ॥
स्पर्शो ज्ञानं तथा हर्षो रौक्ष्यं चेष्टा च लाघवम् ॥ ७ ॥
प्राणापानौ समानश्च व्यानोदानौ च वायवः ॥
रूपं दृष्टिः पिपासा च पित्तमूष्मा च केवलम् ॥ ८ ॥
रोगः पक्तिः प्रकाशश्च तैजसानीति निश्चयः ॥
रसज्ञानं रसाश्चैव स्नेहः क्लेदः कफस्तथा ॥ ९ ॥
अब्जान्येतानि गर्भस्य वेदितव्यानि तत्त्वतः ॥
(*घ्राणो गन्धश्च मूर्तिश्च स्थैर्यं गौरवमेव च ॥ ४१० ॥
पार्थिवानाह गर्भस्य वदन्ति नयकोविदाः ॥
तस्माद्गर्भस्तु पितृजो मातृजस्तत्स्वभावतः ) ॥ ११ ॥
रससात्म्यात्मकश्चैव पञ्चभूतात्मकस्तथा ॥
जिह्वा नासाऽक्षिणी कर्णौ शिरोऽथ हृदयं गलः ॥ १२ ॥
नाभिर्वस्तिर्गुदश्चैव जीवस्याऽऽयतनानि वै ॥
परोक्षत्वादनिष्ठं हि मन्यन्ते भूतसंभवम् ॥ १३ ॥
विचिन्त्य बहुशो बुद्ध्या विप्रो गौतमवाङ्गली ॥
कुमुदस्य समुत्पन्ना वामनस्याञ्जनस्य च ॥ १४ ॥
पुण्डरीकस्य च कुले सर्वव्यञ्जनपूजिताः ॥
ते(ये)षां मुक्ता विषाणेषु पुरीषेषु च रोचना ॥ ४१५ ॥
यस्य स्युस्ते च नृपतेः स राजा स्यादनिर्जितः ॥
वायुर्गर्भे शयानस्य यस्य सक्थि निषेवते ॥ १६ ॥
स नीचजघनः स्यात्तु पुरस्ताच्च समुच्छ्रितः ॥
वायुर्गर्भे शयानस्य मन्यासंधिषु कुप्यति ॥ १७ ॥
सोऽस्य नामयति ग्रीवां तेन माप्रविदुर्गुजः ॥
शरत्काले तु संप्राप्ते प्रभूतयवसोदके ॥ १८ ॥
निर्दंशमशकेऽरण्ये मृगनेत्रासु रात्रिषु ॥
दिशो गजाश्च यूथानि समवेक्षन्ति पार्थिव ॥ १९ ॥
लीलया क्रीडमाना वै वनेषूपवनेषु च ॥
जनयन्ति च ते तत्र त्रिविषाणाननेकपान् ॥ ४२० ॥

  • धनुश्चिह्नद्वयान्तःस्थो नास्ति पाठः कपुस्तके ॥

१ क. रागपक्तिप्रकाशाश्च । २ क. अत्यन्येतानि । ३ क. ॰त्मकाश्चै॰ ।
४ क. ॰त्मकास्त॰ । ५ क. लोचना । ६ क. ॰मयेत्सति पा॰ ।