हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 454, कुल 742 में से
संदर्भ में पढ़ें८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४३६
सत्त्ववायुबलोद्रेकाद्द्रवेयुर्जवसम्पदः ॥
मनसस्तद्गुणानां च पित्तप्रकृतिसत्त्वयोः ॥ ९३ ॥
समुद्रेकाद्द्रवेन्मेधा त्वष्टाङ्गा बुद्धिरैव च ॥
अन्वर्थोत्तानगम्भीरप्रत्यर्थात्पर्थवेदिता ॥ ९४ ॥
भद्रमन्दमृगत्वं च तथा च प्रकृतित्रयम् ।
सर्वं जातिविभागेन प्रकृतौ च प्रवक्ष्यते ॥ ३९५ ॥
भक्ष्यं भोज्यं च पेयं च तथा लेह्यं च हस्तिनी ॥
अभीक्ष्णं यत्समादत्ते सेवते चापि गर्भिणी ॥ ९६ ॥
दौहृदं तं विजानीयात्तच्चैवास्यै प्रदापयेत् ॥
अनुकूले भवेद्गर्भो मातुस्तत्रोदरे रसान् ॥ ९७ ॥
एवमेके व्यवस्यन्ति मुनयो गर्भसंभवम् ।
इति गर्भसमुत्पत्तिर्बुद्धिभेदः प्रवक्ष्यते ॥ ९८ ॥
क्रुद्धो भीतः प्रहृष्टो वा दुर्बलो बलवानपि ॥
शब्दैश्च जलदादीनां वने वित्रासितो भृशम् ॥ ९९ ॥
यादृशं भावमाश्रित्य गजो गर्भे निषिञ्चति ॥
यादृशो धेनुका याति जनयेत्तादृशं सुतम् ॥ ४०० ॥
प्रकृतिः प्रकृतिज्ञाने वक्ष्यते ते त्रिधात्मिका ॥
तमःसत्त्वरजोयुक्ता या च दोषसमाश्रया ॥ १ ॥
शुक्रशोणितयोर्गर्भे गर्भनाशविचेष्टितम् ॥
दन्तिनां मानुषैस्तुल्यो दोषो दूष्येन्द्रियाणि च ॥ २ ॥
व्याधयश्च भवन्त्येषां प्रायशस्तुल्यलक्षणाः ॥
मातुर्या सात्म्यतश्चैव विशेषः प्रकृतेस्तथा ॥ ३ ॥
चेतना च मनो बुद्धिराकृतिश्च स्वभावतः ॥
आरोग्यं दौहृदं चापि सात्म्यजान्यापुरेव च ॥ ४ ॥
विज्ञानमिन्द्रियस्थानं सुखदुःखे प्रियाप्रिये ॥
तमो रजश्च सत्त्वं च गर्भस्याऽऽत्मजमिष्यते ॥ ४०५ ॥
क्षुत्पिपासासहिष्णुत्वं तृप्तिश्चैव तु सत्त्वजाः ॥
श्रोत्रं शब्दाश्च मूर्तिश्च विवेकश्चैव खानि च ॥ ६ ॥
१ क. ॰गे च प्र॰ । २ क. ॰माधत्ते । ३ क. ॰त्पत्तिबुद्धि॰ । ४ क. वक्ष्यते
ते त्रिधात्मिके ॥ त॰ । ५ क. ॰योर्न्म ग॰ । ६ क. ॰स्तुल्या दोषा दू॰ । ७ क.
विशेषाः । ८ क. सत्सजाः ।