हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 453, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 453
४१४ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
सम्यग्गर्भेऽपरिक्लिष्टो ह्यक्लिष्टापामहुद्गलर्मः ॥
एष नागो महाराज यावदायुर्मदोत्कटः ॥ ७९ ॥
न च दोषाः प्रधावन्ति शब्दाद्यास्तमनेकपम् ॥
मदक्षीणेन यो जातः क्षीणायां चैव मातरि ॥ ३८० ॥
जनितश्चाप्यहृष्टाभ्यां यः क्लिष्टश्रोदरे भृशम् ॥
एष मत्तो न भवति यावदायुर्मतङ्गजः ॥ ८१ ॥
स च नित्यं महाराज भवेत्प्रकृतिदुर्बलः ॥
आहाराचारवैगुण्यादभिघाताच्छ्रमाद्भयात् ॥ ८२ ॥
गर्भिण्याः कुपिता दोषा गर्भा(र्भं)जीवितनाशनाः ॥
ऋतुमैथुनशुक्राणां वैगुण्याच्छोणितस्य च ॥ ८३ ॥
ईप्सासात्म्योपभोगाच्च दौहृदस्य विमाननात् ॥
अशुभात्कर्मणोऽल्पायुर्दीर्घायु