हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 452, कुल 742 में से
संदर्भ में पढ़ें८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४३१
असृग्गर्भे शयानस्य यस्य वेष्टौ निषेवते ॥
विषाणे तस्य जायेते वारणस्य मधुप्रभे ॥ ६६ ॥
मन्दीभूतो यदा वायुर्दन्तवेष्टौ निषेवते ॥
म्लाने विषाणे तेनास्य जायते ग्रन्थयोऽपि वा ॥ ६७ ॥
दन्तयोर्मारुतो यस्य मूलयोर्नावतिष्ठति(ते) ॥
समदन्तस्ततो नागो जायते नात्र संशयः ॥ ६८ ॥
संजातदन्तवेष्टस्य मुखे कुप्यति मारुतः ॥
विषाणावुपहन्येते मूढस्त्तेनोपजायते ॥ ६९ ॥
नवमे दशमे वाऽपि हस्तिनी यदि पीडिता ॥
²निःस्नेहापां खरीभूतो भृशं कोपमुपागतः ॥ ३७० ॥
यद्यूष्मसहितो वायुर्दन्तमूले निषेवते ॥
विषाणावुपहन्येते मत्कुणस्तेन जायते ॥ ७१ ॥
वायुगर्भे शयानस्य दन्तमूले निषेवते ॥
न तत्र दन्तौ जायेते यत्र कुप्यति मारुतः ॥ ७२ ॥
यस्यैकदन्तवेष्टं तु मारुतः संनिषेवते ॥
एकदन्तः स मातङ्गो जायते नात्र संशयः ॥ ७३ ॥
यस्य पोतस्य जातस्य मूर्त्तौ कुप्यति मारुतः ॥
संजातदन्तवेष्टस्य एकमात्रोपहन्यते ॥ ७४ ॥
(※एकभावस्तु संपूर्णे यत्र वातो न कुप्यति ॥
वामोन्नतो वा भवति त्वथवा दक्षिणोन्नतः ॥ ३७५ ॥
एकः संजायते तत्र एकश्चैवोपहन्यते ॥)
──:(0):──
वायुगर्भे शयानस्य कुप्यत्येकाङ्गसंधिषु ॥ ७६ ॥
म्लानगात्रः स मातङ्गो जायते नात्र संशयः ॥
असृग्गर्भे शयानस्य वारणस्योपहन्यते ॥ ७७ ॥
मारुतेन यदा राजन्स्तब्धस्तेन नियच्छति ॥
हस्तिन्यां तु प्रवृष्टायां प्रभिन्नेनाथ जायते ॥ ७८ ॥
────────────────────────────────────────
- अयं सार्धश्लोकः 'वायुगर्भे'–इत्यर्धोत्तरं कपुस्तके ॥
────────────────────────────────────────
१ क. जायन्ते । २ क. निस्नेहानां । ३ क. ख. ०यूष्मास० । ४ क. ०स्तेनो-
पंजायते ॥ ह० ।
५५