हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 451, कुल 742 में से
संदर्भ में पढ़ें४१२ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने-
निबद्धा धातुका यस्माद्धस्ते चैव मुखे तथा ॥
तस्मान्मुखान्न हस्ताच्च स्वेदो गच्छति दन्तिनाम् ॥ ५४ ॥
इमे महान्तो बलिनो जातकामा मनस्विनः ॥
प्रशस्तव्यञ्जना नागा वृषणैश्चावलम्बिभिः ॥ ३५५ ॥
वोहनं तु भविष्यन्ति मनुष्याणामनेकपाः ॥
तस्मात्करीषप्रस्तावे वृषणौ संप्रवेष्टितौ ॥ ५६ ॥
—:०:—
म्लानशिरा म्लानमुखो *विषमो बधिरश्च यः ॥
गुटकर्णो †वक्रवालः पक्षहीनस्तथैव च ॥ ५७ ॥
कुष्ठी किलासी विमतः कोणः षण्ढोऽथ वामनः ॥
कुब्जः किलासिमेण्ड्रश्च हीनाङ्गो यश्च वारणः ॥ ५८ ॥
पश्चाद्गैर्विषमैरङ्गो दृश्यते मनुजाधिप ॥
वातपित्तोपघातेन जायते नात्र संशयः ॥ ५९ ॥
बाह्यान्तरविषाणाभ्यामन्तरे दन्तवेष्टयोः ॥
वायुः कुप्यति नागस्य विशालस्तेन जायते ॥ ३६० ॥
दन्तयोरुपरिष्टाच्चेदधस्तादपि वेष्टयोः ॥
वायुः कुप्यति नागस्य तदा वा कालसंभवः ॥ ३६१ ॥
दन्तवेष्टान्तयोश्चैव दन्ताभ्यां बाह्यतस्तथा ॥
वायुः कुप्यति नागस्य सदन्तस्तेन जायते ॥ ६२ ॥
विषाणान्दन्तरे यच्च अन्तरे दन्तवेष्टयोः ॥
शंकश्च वायुश्चरति साधुस्तेनोपजायते ॥ ६३ ॥
अन्तरे च विषाणस्य दन्तवेष्टस्य चान्तरे ॥
वायुः कुप्यति नागस्य जायतेऽतस्त्वपाहलः ॥ ६४ ॥
श्लेष्मा मारुतसंश्लिष्टो दन्तवेष्टौ निषेवते ॥
विषाणे तेन जायेते $अस्थिश्वेत तु दन्तिनाम् ॥ ३६५ ॥
* 'विकटो' इति प्राक्प्रभोद्देशे । † 'ह्रस्ववालः' इति प्राक् । $ 'अतिश्वेता' इति प्रभोद्देशे ।
१ क. °बद्धमा° । २ क. वाहनत्वं । ३ ख. वक्तवा° । ४ क. परिक्षीणस्त° । ५ क. काण° ।ऽथ । ६ क. °न्तरे वि° । ७ क. एकस्य ।