हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 450, कुल 742 में से
संदर्भ में पढ़ें८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४३१
वातः पित्तं च श्लेष्मा च चक्षुष्याधीयते यदि १ ॥
सत्पक्षासनमातङ्गो जायते नात्र संशयः ॥ ४१ ॥
पित्तं रुधिरसंसृष्टं चक्षुषी तु व्रजेद्यदि ॥
काकाक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ४२ ॥
संश्लिष्टं श्लेष्मणा पित्तं चक्षुषी यदि गच्छति ॥
श्वेताक्षस्तेन मातङ्गः कालवारक एव च ॥ ४३ ॥
असृग्गर्भे शयानस्य यदि चक्षुषि लीयते ॥
पारापताक्षः स गजो जायते नात्र संशयः ॥ ४४ ॥
रक्तं श्लेष्मा च पित्तं च यदि चक्षुषि लीयते ॥
मध्वक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ३४५ ॥
विषमाक्षश्च वातेन विरूपाक्षश्च जायते ॥
नानानिमेषो मातङ्गः पित्तश्लेष्मगतीर्हि सः ॥ ४६ ॥
विषमेष्वतिभारेण हस्तिनी यदि पीडिता ॥
मिथ्याकर्मणि आयासादूष्मा संजायते भृशम् ॥ ४७ ॥
सा चेच्चूष्मसहिता तोयं समवगाहते ॥
नेत्रे तेनोपहन्येते गर्भस्थस्योष्मणा नृप ॥ ४८ ॥
ऊष्मणा पच्यमानस्य चक्षुर्हन्येत हस्तिनः ॥
जात्यन्धस्तेन मातङ्गो जायते नात्र संशयः ॥ ४९ ॥
गर्भे यदा शयानस्य जानुनी प्रतिपद्यते ॥
उभयोर्गात्रयोरन्तर्मारुतः संचरेन्नृप ॥ ३५० ॥
निर्भुज्यते स गात्रेषु विकटस्तेन जायते ॥
वारणः पृथिवीपाल नास्ति तत्र विचारणा ॥ ५१ ॥
पृथुत्वान्नानु नागानां रोमकूपैर्न गच्छति ॥
प्रस्वेदः पृथिवीपाल शीलसात्म्या ह्यतः स्मृता ॥ ५२ ॥
स्नायुबद्धा छविश्लेषां गाढरोमा च जायते ॥
अन्तःस्वेदा बलाधिक्यात्तस्मान्नागो नृपोत्तम ॥ ५३ ॥
१ क. च चक्षुषी यदि ली° । २ क. सा । ३ क. °षुकीक° । ४ क.
°गान्नृपो° ।