सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 294, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 294

५३ शारदाध्यायः ] हस्त्यायुर्वेदः । २७५
क्षुमः(ष्णः) प्रोतः प्रदातव्यः पिण्डशूलद्वये हितः ।
पिण्डोऽन्यो गुडशुण्ठीभ्यां शुण्ठीकल्कस्तथाऽञ्जनम् ॥
तत्र श्लोकः—
एवं हि प्रवरभिषक्प्रयुक्तयोगैर्निःशेषं व्यपनय मृत्युकल्पशूलम् ।
आनाहेषु........विहितमतिपान .... .:. ....पानादिक्रमविहितश्च भक्तयोगः ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने द्वितीये क्षुद्ररोगस्थाने
शूलद्वयं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥
अथ त्रिपञ्चाशत्तमोऽध्यायः ।
अथाङ्गाधिपतिः श्रीमान्पालकाप्यं स्म पृच्छति ।
संग्रहे ये त्वपोद्दिष्टाश्चत्वारः शारदा विभो ॥
तेषां तत्त्वेन निर्देशं भगवन्वक्तुमर्हसि ।
ततोऽङ्गचोदितः प्राह पालकाप्यो महातपाः ॥
अध्वामे पानमार्गादिष्वसामर्थ्यं क्रियासु यत् ।
बले सत्यप्यसति वा तद्योगाच्छारदाः स्मृताः ॥
चत्वारस्ते च तत्राऽऽदौ वक्ष्यते स्थूलशारदः ।
विहाराहारसंपत्त्या पुष्टो वर्षं स्थितः सुखी ॥
अध्वायामोऽलसोऽत्यर्थमक्षमः सर्वकर्मणाम् ।
महानिद्रः समुच्छ्वासी हृद्यजठरमूत्रता (?) ॥
मेदुरः समिरुजघात्तामा (?) रोगास्पदं भवेत् ।
.... .... .... श्लेष्मा .... .... द्विट्किंचिदुष्णप्रियोऽपि च ॥
ग्रासेष(ष्व)रोचकः प्रायस्तस्येयं वक्ष्यते क्रिया ।
प्रातर्वीथ्यां विषण्णोऽसौ पूर्वनिचैर्गतेन तु ॥
दिने दिने क्रमं लब्ध्वा ततो युक्त्याद्रुतान्तरे ।
जवनैः पञ्चभिरथो सप्त चाहानि पाययेत् ॥
सुरां सपञ्चलवणां षडङ्गां तदनन्तरम् ।
सिद्धं वृषाम्रिकैरण्डैः सर्पिषा षष्टिकौदनम् ॥
मुद्गयूषेण संभोज्यस्तमेवानुपिबेच्चतः ।
कषायतिक्तकटुकान्दद्याच्च कवलानपि ॥
१ ख. प्रीतः । २ ख. सत्येष स० ।