सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 293, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 293

२७४ पालकाप्यमुनिविरचितो— [ १ क्षुद्ररोगस्थाने-
॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ धात्पित्तस्तपजेद्व्रजन् ।
॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॥
॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ ॰॰॰॰ *वारणानां महामुने ।
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
अनङ्गनाशाय हरस्त्रिशूलं मुमोच कोपान्मकरध्वजस्य ।
तमापतन्तं सहसा निरीक्ष्य भयार्दितो विष्णुतनुं प्रविष्टः ॥
स विष्णुहुंकारविमोहितात्मा पपात भूमौ मथितः स शूलः ।
स पञ्चभूतानुगतं शरीरं प्रदूषयेद्दोषरसादिधातून् ॥
विण्मूत्रशुकानिलनिग्रहेण अत्यम्बुपानाशनसेवनाच्च ।
श्रमाभिघातादुपतापनाच्च वायुः प्रकुप्याऽऽशु करोति शूलम् ॥
हृत्पार्श्वपृष्ठोदरकट्युपस्थे करोति पीडां विविधां सुगुर्वीम् ।
यदा सपित्तः कुपितो वायुः स प्रतिपद्यते ।
तदा मूर्छा भ्रमस्तृष्णा ग्रासद्वेषो विवर्णता ॥
दाहकम्पौ प्रपतनं क्रोधस्तस्याधिको भवेत् ।
सकफः कुपितो वायुः करोत्युन्मार्गगस्तथा ॥
आमाशयस्थः कुरुतेऽतः शूलं गाढवेदनः ।
मुहुर्निषादनं स्तम्भमक्षणोः साश्रु विचेष्टितम् ॥
क्रोधं यवसविद्वेषमिति लिङ्गान्यतः क्रियाः ।
घृताभ्यङ्गः सपित्ते स्याद्याश्च पित्तानिलक्रियाः ॥
सकफेऽपि निवातस्थं कोष्णतैलनिषेचनम् ।
†स्वेदयेत्स्नानपाने च युष्पादुरुष्णोदकं तथा ॥
अविरुद्धां च कुर्वीत सर्वां वातकफक्रियाम् ।
धूपयेत्सर्वगन्धैश्चैराजयगोशकृताऽपि वा ॥
इङ्गुदैर्घृतसंयुक्तैर्वातकैर्वा घृतप्लुतैः ।
शूलधूपे च सामान्यो वक्ष्यतेऽतः परं विधिः ॥
हरिद्रे हिङ्गुबृहती विडङ्गं पारिभद्रकम् ।
देवदार्वश्वगन्धां च सरलेन्द्रयवानपि ॥

  • इतः पूर्वं कपुस्तके '^' इति त्रुटिचिह्नम्, खपुस्तके 'अत्र किंचित्त्यक्तमस्ति' इति
    दृश्यते । तथाचास्मिञ्शूलाध्याये प्रारम्भश्लोकहीनता, पूर्वस्मिँहुसाध्याये समाप्तिश्लोका-
    दिहीनताऽवसीयते ॥ † 'स्वेदने' इति स्यात् ।
    १ ख. शूलम् । २ क. ॰षेवितम् । ३ क. ॰न्धाद्यैः साज्य॰ ।