सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 228, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 228

१६ वालक्षाणी नामाध्यायः ] हस्त्यायुर्वेदः । २०९
(?)पां कां सलिलेन पिष्टाश मूर्धा वै वेत्रवारुणी ॥)
एतल्लवणसंयुक्तं शोधनीयं प्रलेपनम् ॥ १२ ॥
इदमन्यत्प्रवक्ष्यामि पिप्पली कटुरोहिणी ॥
दन्ती कृष्णा विडङ्गानि श्वेतार्कक्षीरपोषिताम् ॥ १३ ॥
कृमिघ्नं साधनीयं च कुर्याद्भाले प्रलेपनम् ॥
(?)साक्षामाशशृङ्गी च हरिवेरं सचन्दनम् ॥ १४ ॥
प्रलेपनमिदं कुर्याद्भालोपचयकारकम् ॥
अतस्तृणौदनं सर्पी राजन्कुर्यात्सभेषजम् ॥ १५ ॥
प्रपुन्नाङ्गं विडङ्गं च कासीसं समनःशिलम् ॥
ततस्तैलमिदं कार्यं व्रणाभ्यञ्जनमुत्तमम् ॥ १६ ॥
पुनर्नवां पयस्यां च सहदेवीं शतावरीम् ॥
जीवन्तिकां वाजमाणां जीवकं चवकुं(कं) समा ॥ १७ ॥
सवहूं च विशल्यां च सहदेवीं तथैव च ॥
सहां चैव हिणामूत्रे समभागानि कारयेत् ॥ १८ ॥
सद्यो व्रणे यथोक्ताभिः क्रियाभिः समुपाचरेत् ॥
कुर्यात्संवरणं चास्य मृदितेनातिचर्मणा ॥ १९ ॥ १५६९ ॥
तत्र श्लोकौ—
उद्दिष्टाश्चोपदिष्टाश्च क्रियाः सम्यक्प्रकीर्तिताः ।
ऊहापोही च मेधावी वालक्षाणीं प्रंसाधयेत् ॥
कालातीतः क्रियाभिर्वाऽतिक्रियाभिरतोऽपि वा ।
अत्यन्तमक्रियाभिर्वा याति साध्योऽप्यसाध्यताम् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महापाठे द्वितीये क्षुद्र-
रोगस्थाने वालक्षाणी नाम षोडशोऽध्यायः॥१६॥
अथ सप्तदशोऽध्यायः ।
पालकाप्यमुवाचेदं कृतजप्यं कृताञ्जलिः ॥
व्याचक्ष्व भगवन्व्याधिं मेढ्रक्षाणीं सभेषजम् ॥ १ ॥
स कथं मेढ्रक्षाणीति संज्ञया व्याधिरुच्यते ॥
तेन ससंभवं ब्रह्मन्सनिरुक्तं प्रचक्ष्व मे ॥ २ ॥
१ प्रसाद्येत् ।
२७