सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 227, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 227

२०८ पालकाप्यमुनिविरचितो- [ २ क्षुद्ररोगस्थाने-
यवसं नाभिरूषति न तोयं नष्टचेतनः ॥
पतमाना नग†......प्रत्याख्यायाऽऽचरेत्क्रियाम् ॥१५॥५५०॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने द्वितीये क्षुद्ररोगस्थाने
हृदपस्फाली नाम पञ्चदशोऽध्यायः ॥ १५ ॥
अथ षोडशोऽध्यायः।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
वालक्षाणीं सभैषज्यं सनिदानं प्रचक्ष्व मे ॥ १ ॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
वालक्षाणी यदाऽऽगन्तुर्दोषजो वाऽपि जायते ॥ २ ॥
स वालक्षपणाद्व्याधिर्वालक्षाणी निरुच्यते ॥
गुलिकास्थिसमूहश्च बहुशः सर्वतश्चलन् ॥ ३ ॥
यतंस्त्रिणतो बालधिस्तस्मात्संधिर्विधीयते ॥
छिन्नं वा कटुयुक्तं वा (*भक्षितं वा)पि दन्तिना ॥ ४ ॥
तैलपात्रे सुतप्ते तं सद्य एव निमज्जयेत् ॥
संपिष्टं मथितं वाऽपि बैलसंघृष्टमेव वा ॥ ५ ॥
यष्टिमधुकं चूर्णाक्तं भक्षयेन्मधुसर्पिषा ॥
गाढबन्धाद्व्रणो यस्तु दण्डाघातेन वा भवेत् ॥ ६ ॥
अश्मलोष्टप्रहारेण तस्य शीता क्रिया हिता ॥
क्षतो वाऽप्यवलम्बी वा यदि च्छेदनमर्हति ॥ ७ ॥
तं छित्त्वा तु भृशोष्णे तु तैलपात्रे तु मज्जयेत् ॥
कृमयो यदि वाले स्युर्जाता भल्लातकैः सह ॥ ८ ॥
विपाच्य सार्षपं तैलं सूणाष्टं क्षपयेद्व्रणे ॥
पारापतमयूराणां कुक्कुटानां सकृद्रसम् ॥ ९ ॥
समभागं सलवणं साधनीयं प्रलेपनम् ॥
विडङ्गं चित्रकं किण्वं गोमूत्रं रजनीद्वयम् ॥ १० ॥
लवणं शृङ्गवेरं च शोधनीयं प्रलेपनम् ॥
(*सुरसाङ्कोल्लजातीनां पत्राण्यारग्वधस्य च ॥ ११ ॥
―― पुस्तकद्वयेऽपि त्रुटितम् । * धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
१ वयसं । २ ख. प्रचक्ष्महे । ३ क. °तस्तृण° । ४ क. बले सं° ।