सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 195, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 195

एतत्प्रकीर्तितं सर्वं ततो निशि निवासयेत् ॥
ततः प्रक्षालयेद्वैद्यो व्रणं शस्त्रेण शोधितम् ॥ १९ ॥
उभे हरिद्रे मञ्जिष्ठां मधूकं तगरं तथा ॥
हरीतकीं प्रियङ्गुं च नाकुलीं केंदर्दी तथा ॥ २० ॥
गोपित्तं च समांशानि सूक्ष्मचूर्णानि कारयेत् ॥
एष चूर्णागदः श्रेष्ठो गजानां व्रणरोपणः ॥ २१ ॥
एतैरेव पुनः स्वाङ्गैर्यथोक्तैः साधयेद्घृतम् ॥
एतदभ्यञ्जनं दद्याद्गजानां व्रणरोपणम् ॥ २२ ॥
अथ दिग्धेन विद्धस्य व्रणः पुष्यति दन्तिनः ॥
गतिंर्गृह्णाति दूरं च जायन्ते ग्रन्थयोऽधिकाः ॥ २३ ॥
मांसानि च प्रहृष्यन्ति दन्तिनो विषवेगतः ॥
तत्र कर्म प्रवक्ष्यामि येन संपद्यते सुखी ॥ २४ ॥
आमं विदाह्यमानं वा विषाद्वि पक्वमेव वा ॥
रोहन्तं निर्विकारं वा लिङ्गैरैतैर्विनिर्दिशेत् ॥ २५ ॥
सवर्णं कठिनं कोष्णं भारिकं मन्दवेदनम् ॥
आध्मानं सुस्थिरं स्निग्धमाममित्यभिलक्षयेत् ॥ २६ ॥
विवर्णं नातिकठिनं सोष्म वेदनयाऽन्वितम् ॥
विदह्यमानं जानीयाल्लिङ्गैरैतैर्विचक्षणः ॥ २७ ॥
आमे विदह्यमाने च प्रच्छन्नं कारयेद्बुधः ॥
जलौकालावुशृङ्गैर्वा शोणितं मोक्षयेत्ततः ॥ २८ ॥
आध्मानममृदु स्निग्धं गुरु चोष्णं सवेदनम् ।
अपक्वं तु भिषग्विद्यात्तत्र शस्त्रं न पातयेत् ॥ २९ ॥
शीतलं शीर्णरोमाणं मृदु पाण्डुमवेदनम् ॥
सुपक्वमभिविज्ञाय तत्र शस्त्रं निपातयेत् ॥ ३० ॥
[श]स्त्रकर्म यथोक्तं तु यथाशास्त्रं समाचरेत् ॥
छेद्यं भेद्यं च वेध्यं च विश्रा(स्त्रा)व्यं लेख्यमेव चं ॥ ३१ ॥
एतत्सर्वं भिषक्कुर्याद्विषातानां तु संनिधौ ॥
तद्वेद्यशस्त्रेण विधेयन्यथोशास्त्रं समाचरेत् ॥ ३२ ॥
एषणया तु समन्वेष्य गतिर्यत्राऽऽश्रिता यथा ॥
पदं कुर्याद्यथोद्दिष्टं यथा दोषो न तिष्ठति ॥ ३३ ॥


१ क. ॰त्प्रकथितं । २ क. बदरीं । ३ क. गतिं गृह्णा° । ४ क. वा । ५ क. ॰थाप्राप्तं स ।