हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 194, कुल 742 में से
संदर्भ में पढ़ें९. दिग्धविद्धाध्यायः ] हस्त्यायुर्वेदः । १७५
लाला प्रवर्त्तते चास्य चक्षुषा च न पश्यति ॥
शोफोऽस्य मृदुनिम्नेषु प्रदेशेषु विवर्धते ॥ ४ ॥
गजस्य दिग्धविद्धस्य रूपमेतत्प्रकीर्तितम् ॥
तस्य कर्म प्रवक्ष्यामि यथा संपद्यते सुखी ॥ ५ ॥
गात्रापरपरिक्षिप्तं नागं कृत्वा सुयन्त्रितम् ॥
शल्यमुद्धृत्य नागस्य शोधनं तस्य कारयेत् ॥ ६ ॥
सेचयेद्वारिणा वेधं प्रदेहेश्च प्रदेहयेत् ॥
त्वचमामलकीनां च खदिरस्य धवस्य च ॥ ७ ॥
समभागं ततः कुर्यात्समाहृत्य पृथक्पृथक् ॥
खण्डशः कल्पयित्वा वै काथयेद्दिव्यवारिणा ॥ ८ ॥
एतत्क्वाथं परिस्त्रा( स्रा )व्य भेषजानि समावपेत् ॥
सोमवल्कं वचां श्वेतामोदकीपाटलां तथा ॥ ९ ॥
आस्फोटां वारुणीमूलं पयस्यां मधुकं यवान् ॥
तथैवोत्पलकन्दांश्च भागाः स्युः कर्षसंमिताः ॥ १० ॥
यथा जातः प्रदेहः स्यात्तदेनमवतारयेत् ॥
एवं सुशीतलं कृत्वा विधं तस्यानुलेपयेत् ॥ ११ ॥
विषं हन्ति महीपाल क्षिप्रं च सुखमाप्नुयात् ॥
अथातः संप्रवक्ष्यामि विषप्रशमनं हितम् ॥ १२ ॥
चतुर्द्रोणे तु पयसि भेषजानि समावपेत् ॥
पयस्या क्षीरकाकोली अमृता द्वे च सारिवे ॥ १३ ॥
श्वेता च मुद्गपर्णी च माषपर्णी मृणालिका ॥
कसेरुका ह्यनन्ता च जीवकर्षभकावुभौ ॥ १४ ॥
कपिकच्छूस्तथा देया पिप्पली च महीपते ॥
उदुम्बरसमं कल्कं कारयित्वा पृथक्पृथक् ॥ १५ ॥
तोयं दशाढकं दत्त्वा सर्पिषश्चाऽऽढकं तथा ॥
आढकं शर्करायाश्च ततो मन्दाग्निना पचेत् ॥ १६ ॥
यदोपयुक्ततोयं स्यात्तदेनमवतारयेत् ॥
सुशीतलमिदं कृत्वा पानं दद्याद्विषापहम् ॥ १७ ॥
त्वचावुभे समानीय विदुलस्यार्जुनस्य च ॥
क्षीरिणां पादपानां च कोविदारकदम्बयोः ॥ १८ ॥
१. क. मुनिनिम्नेषु । २. क. ०र्षकतावु० ।