सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 193, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 193

१७४ पालकाप्यमुनिविरचितो— [२. क्षुद्ररोगस्थाने—
कन्यायाः पुष्पयोगेन पेष्टव्या वारिणा सह ॥
क्षणात्सर्वं विषं हन्ति सर्वपापप्रणाशनः ॥ ७२ ॥
रक्षोघ्नः पुष्टिकामस्य सदा चन्द्रोदयः स्मृतः ॥
आर्द्रस्य वेनोस्त्वक्चापि बीजं चाथ करञ्जयोः ॥ ७३ ॥
मध्यमं च कपित्थस्य कुङ्कुमं चाञ्जनं तथा ॥
शिरीषपुष्पं दशमं गोपित्ते निप्रदापयेत् ॥ ७४ ॥
अश्लेषाज्येष्ठयोः कार्यो ह्यगदः कालको भवेत् ॥
कारयेद्गुटिकां प्राज्ञः शृणु चास्य प्रयोजनम् ॥ ७५ ॥
नस्यकर्मणि नागानां युञ्जीतऽऽलेपने भवेत् ॥
सर्पाणां राजिलानां च विषं मण्डलिनां च यत् ॥ ७६ ॥
गूढगर्भा करेणुर्या तस्या योनिं प्रलेपयेत् ॥
आलेप्य वा गुदं वाऽथ गुदे वर्तिं प्रवेशयेत् ॥ ७७ ॥
ततः प्रसूयते क्षिप्रं हस्तिनी क्रिययाऽनया ॥
न हन्यादुपयुक्तस्तु* .... .... .... .... .... .... .... .... ॥ ७८ ॥
.... .... .... .... .... .... .... .... .... .... .... .... .... ॥
.... ....१श्लक्ष्णीकृतानेतान्ये२धस्थानेषु योजयेत् ॥७९॥१२८२॥
इति श्रीपालकाप्यमुनिविरचिते हस्त्यायुर्वेदमहाप्रवचने द्वितीये
क्षुद्ररोगस्थानेऽष्टमोऽध्यायः ॥ ८ ॥
अथ दिग्धविद्धो नाम नवमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
दन्तिनो दिग्धविद्धस्य किं कार्यमुपलक्ष्यते ॥ १ ॥
चिकित्सां वाऽऽनुपूर्व्येण भगवन्वक्तुमर्हसि ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ २ ॥
दन्तिनो दिग्धविद्धस्य चिराच्छृ(त्त्र)वति शोणितम् ॥
विद्धो विवर्णो भवति शोणितं च विवर्धते ॥ ३ ॥

  • इतोऽग्रे त्रुटितचिह्नभूता काकपदी कपुस्तके, खपुस्तके 'इतः किंचित्त्यक्तमस्ति'
    इति मूल एव लिखितं गैरिकरक्तं दृश्यते ।
    १ क. श्लक्ष्णकृतानेतान्याध० । २ ख. ०न्यध्वः स्था० ।