हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 192, कुल 742 में से
संदर्भ में पढ़ें८ अध्यायः] हस्त्यायुर्वेदः १७१
विषघ्नानि प्रवक्ष्यामि मांसानि मनुजाधिप ॥
विषाणां यानि चोक्तानि अविरुद्धानि नित्यशः ॥ ५७ ॥
कोकिलाश्च बकाकाश्च वर्तकाः सकपिञ्जलाः ॥
कपोता वर्धमानाश्च ऊर्ध्वगाश्चैव ये खगाः ॥ ५८ ॥
मयूरतित्तिरिलावाः पञ्चैव मनुजाधिप ॥
अर्कोनिलहता नित्यं धिरुद्गमनस्तथा ॥ ५९ ॥
तस्मात्ते भोजने राजन्विषाणां समुदाहृताः ॥
विषस्य प्रथमे काले जाङ्ग्लानि समाहरेत् ॥ ६० ॥
शीतलानि च सेवन्ते ये चोष्णानि तथा मृगाः ॥
मध्ये साधारणा राजन्विषाणां समुदाहृताः ॥ ६१ ॥
विषस्य पश्चिमे काले संप्राप्ते प्राणनाशने ॥
विषं तु हृदये येषां रक्तं च कलुषीकृतम् ॥ ६२ ॥
सदा न जायते रक्तं मारुतेन समाहितम् ॥
तेभ्यस्तु मत्स्यमांसानि वाराहाणि च दापयेत् ॥ ६३ ॥
अदनानि तु वक्ष्यामि विधिवत्तेन भूमिप ॥
शालयः षष्टिका व्रीहियवगोधूममेव च ॥ ६४ ॥
आहारार्थं विधीयन्ते गजानामिह नित्यशः ॥
शारदाश्चैव ये मुद्गाः शालीनां तन्दुलास्तथा ॥ ६५ ॥
सुस्विन्नमेतद्वितयं ततः समवतारयेत् ॥
तद्भक्तं संसृजेत्सर्वं संयोज्य हविषा ततः ॥ ६६ ॥
बैस्तमूत्रमजाक्षीरं शर्करां च रसाञ्जनम् ॥
एवं घृतेन संयुक्तं कथितं पद्मिनीजलम् ॥ ६७ ॥
एतद्भक्ते च पाने च दापयेत्सविषे गजे ॥
अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ६८ ॥
चन्दनं तगरं चैव त्वगेलापत्रमेव च ॥
प्रियङ्गुनागपुष्पं च मांसी कुष्ठं सपद्मकम् ॥ ६९ ॥
कुङ्कुमं च मृणालं च मुस्तां स्पृक्कां शताह्वयाम् ॥
ससितां सुरसां हिङ्गु हरितालं मनःशिलाम् ॥ ७० ॥
अष्टौ सिद्धार्थमुस्ताश्च विंशतिश्च हरेणुकाः ॥
रोचना हरिवेरं च कुटन्नटमथापि वा ॥ ७१ ॥
१ ख. वर्त्तकाः । २ क. वत्सम्° । ख. वत्समू° ।