हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 170, कुल 742 में से
संदर्भ में पढ़ें१८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । १६१
वातपित्तप्रकोपादजीर्णाम्लविदग्धरूक्षाहारस्नेहोर्ध्वमेवानुश्रित्य पिटका भव-
न्त्युष्णा नेत्रानुगताः, तस्मिन्नुन्मीलयितुमशक्तः । अर्धाक्षणोर्वा पश्येत् । तं
'पिटकाक्षम्' इत्याहुः ॥
तस्य चिकित्सितम्—मधुसैन्धवाभ्यां लेखनम्। श्रीपर्णीवरुणानि चोलूखले
क्षोदयित्वा तस्मिन्विश्रा(स्रा)व्य तोषमजाक्षीरयुक्तः परिषेकः । मधुसैन्ध-
वजप्याहुरोभैरञ्जनम् । तस्येदं भैषज्यम्, मधुसर्पिर्भ्यामञ्जनम्, घृतमण्डेना-
भ्यङ्गः शिरोनयनस्य । पानभोजनानि नस्य कर्म च कुर्यात् । निवाते स्थाने
शय्यां वाऽस्य करीषेण सुखामसंवाधाम्—इति ॥
इति पिटकाक्षः ॥
तत्र श्लोकाः—
बलं हि मूलं राज्यस्य चतुरङ्गमिहोच्यते ।
तत्रापि च गजाः श्रेष्ठाः विज्ञातव्या नराधिप ॥
तेषामिन्द्रियरक्षार्थं यत्नं कुर्याद्विचक्षणः ।
इन्द्रियाणां हि सर्वेषां चक्षुरेवोत्तमं स्मृतम् ॥
अन्धत्वात्सर्वनाशः स्याद्वारणान विशेषतः ।
तस्मात्सर्वार्मना कार्यमुत्तमेन्द्रियरक्षणम् ॥
इत्यक्षिरोगा विधिवत्सनिदानचिकित्सिताः ।
पृच्छते रोमपादाय विंशतिः परिकीर्तिताः ॥
महारोगमिति मया यत्ते स्थानं प्रकीर्तितम् ।
तत्समाप्तमिहाध्याये प्रथमं शास्त्रनिश्चयात् ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थानेऽक्षिरोगाध्याय
*एकोनविंशः (पोऽष्टादशः) ॥ १८ ॥
समाप्तं चैतन्महारोगस्थानं प्रथमम् ॥
- 'एकोनविंशः' इति त्वसंगतमेव प्रतिभाति, पूर्वं संग्रहाध्याये प्रथमस्थानेऽ-
ष्टादशानामेवाध्यायानां परिगणितत्वात् । प्रसङ्गतो ज्वरहेतुविनिश्चय—स्वेद—शान्ति-
रक्षाध्यायानामधिकानां सत्त्वेऽपि 'ज्वरहेतुविनिश्चयाध्याये संख्याङ्कोल्लेखः, स्वेदशान्ति-
रक्षाध्याययोर्ने' इत्यत्र विनिगमकाभावात् ।
१ क. ०नुसृत्य । २ क. तन्निमील० । ३ क. शय्यायां । ४ क. ख.
श्लोकः— । ५ क. बलिं । ६ क. मूत्रं ।