सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 169, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 169

१६० पालकाप्यमुनिविरचितो- [ १ महारोगस्थाने-
तत्र वातातपरुषाः श्यावाः, पित्ताद्धरितनीलपीताः, कफाच्छ्वेताः, शोणिता-
द्रक्तारुणाः, संनिपाताद्बहुविधवर्णाः शबला वा राजिमन्तो भवन्ति ॥
तत्र नीलासितपीतारुणहरितरक्तानां चिकित्सा नास्ति । सप्तरा¹त्रस्थितैः
कृमिभिः श्वेतोपलवदक्षि भवति, तदप्यसाध्यम्। परिशिष्टानामस्ति चिकित्सा ॥
मुञ्जजालेऽपि मुञ्जविधिः कार्यः। क्षीरदधिपललसिन्दुवारमूलकबीजामलक-
कालिकानिर्गुण्डीरोहितकमत्स्यैः कथितैः सुखोष्णैर्घृतमण्डाभ्यक्तं शिरः प्रलि-
म्पेत् । मधुसंसृष्टं तन्दुलोदकं पाययेत् । हरेणुकेलामेषशृङ्गीरोधागुरुदेवदारुश्वे-
तापिप्पलीभिरामलकरससंयुक्ताभिर्घृतमण्डं विपाच्य नस्यं तर्पणं च नेत्रयोः
कुर्यात् । (※मेषशृङ्गीश्वेतपाकीतगरहरेणुकाशीगुनीलिकागिरिकर्णिकाञ्जलिका-
रिकाश्वेताश्यामामूलानि सलिलेन पिष्ट्वाऽञ्जनं कुर्यात् ।) हरिद्राद्वयनिम्बपत्र-
मञ्जिष्ठाहरितालमनःशिलामाषपर्णीभिस्तैलं पक्त्वा नस्यं दद्यात् । मधुकमधू-
च्छिष्टरोधमञ्जिष्ठामनःशिलाजतुक्कुटमेदोभिः पानार्थं धूपः कार्यः। लशुनाञ्ज-
नपिप्पलीफणिज्जकरस्कांस्यनील्यामलकरसगोपित्तैर्यथासंख्यं पृथक्पृथक्पिष्ट्वा
कृमिनाशनमञ्जनमिति ॥
तत्र श्लोकः-
इमं विधिं विधिज्ञस्तु यः.कुर्यात्सुसमाहितः ॥
यथासाधु समुद्दिष्टं मुञ्जजालात्स मोचयेत् ॥
इति मुञ्जजालः ॥
उष्णाम्ललवणकटुकगुरुरूक्षान्नभोजनादतिव्यायामाच्च भवति रुधिरं कुपि-
तम्, तदाऽनिला²वधूतमूर्ध्ववहाः सिराः प्रपन्नं निरुणद्धि चक्षुः । तेनास्य नयने
राज्यः सपरिश्रा(स्रा)वा भवन्ति । शूनवर्त्मनी चाक्षिणी भवतः । तं 'लोहिता-
क्षम्' इत्याचक्षते गजस्य नयनविकारम् ॥
तस्य साधनम्-लोध्रमधुकप्रपौण्डरीककल्केः समस्तैरेवाऽऽश्च्योतनम् ।
अञ्जनं मधुघृताभ्यां कारयेत् । घृतमण्डेन नस्यं कुर्यात् । स्थानं सुशीतलम् ।
वारिपूर्णाश्च घटाः शिरसि वंशे च परिश्रा(स्रा)व्याः । इति ॥
तत्र श्लोकः-
घृतपानैस्तथाऽभ्यङ्गैः स्निग्धैश्च रसभोजनैः ।
यवसैर्मधुरैश्चैव लोहिताक्षं प्रसाधयेत् ॥
इति लोहिताक्षः ॥

  • 'धनुराकारमध्यस्थः पाठो नैव कपुस्तके ॥
    १ ख. ०रात्रिस्थि० । २ ख. ०निलविधू० ।