सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 168, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 168

१८ नेत्ररोगाध्यायः ] हस्त्यायुर्वेदः । १४९
अथ यदाऽत्यर्थगुरुभोजनात्प्रवृद्धश्लेष्मा मारुतोद्भूत ऊर्ध्वं तमादाय नेत्रा-
नुसारगतिभिः शिराभिरनुनीतः श्वेतसूत्राकृतिना सूक्ष्मेण कृमिणा नयनमावृतं
करोति । तदा 'मुञ्जः' इत्युच्यते कफकृतो व्याधिः ॥
तस्य लक्षणम्—वेदना श्वयथू रक्ताताम्राश्रा(स्रा)वो नेत्रस्याप्रतिक्रियया
श्वेतभावः । प्रथमे पटले विचरँल्लक्ष्यते•सूत्रमन्तर्मणिगतमिव व्यक्ताव्यक्तोऽनव-
स्थितः । द्वितीये पटले नातिविचारी स्थूलतरः । तृतीये पटले २रक्तासितहा-
रिद्राणां वर्णानामन्यतमं भजतेऽसाध्यः । चतुर्थे पटले गते मुञ्जे दह्यते नयन-
मणिपरिगतवत्ताम्राजिभिरावृतं भवति । प्रायशः सर्वेषामेव चतुष्पदानां दृष्टि-
हरः । न शस्त्रादृतेऽस्य सिद्धिरस्ति ॥
तस्य गात्रापरपरिक्षिप्तस्यालानितस्य †दन्तोदान्त्यं निगृहीतस्यापयमितस्य
नयनं विडिशौर्वैवर्त्य व्रीहिमुखेन शस्त्रेण सूत्रवेष्टितेन तिलमात्रावशिष्टेनार्धयव-
विस्तारेण दृष्टिभागं वर्जयित्वाऽपाङ्गभागस्थं सूत्रवच्चलितं कृमिं संचरन्तमभितः
प्रथमत एव विध्येत् । ३पक्ष्माणि वा विशति । शस्त्रं वाऽप्यनुवेल्लति, मुखं वा
भजति किंचिदुपहतम् । बडिशेनोद्धरेन्मुञ्जम् । सम्यग्विद्धमेव विद्यात् । (※त-
तस्तमुष्णोदकपूर्णे सुवर्णपात्रे प्रक्षिप्य संचरन्तं राज्ञो दर्शयेत् । सप्तरात्रादूर्ध्वं
दृष्टिद्रवं पिबति च, तमसाध्यं विद्यात् । ) क्षते शस्त्रविधौ बहुशः परिषेचये-
न्नयनमासवेन मधुना । यन्त्रयुक्तमाच्छाद्य मुखं वाससा निवातस्थं स्नेहपानैर्धूप-
नैश्चोपक्रमेत् । सर्जार्जुनकदम्बपुष्पहिङ्गुसर्वगन्धसर्ज रसैर्घृतसंयुक्तैर्धूपयेत् । यथा-
क्रमं मधुपर्णीतैलपर्णीपृथकपर्णीभिस्तैलं पक्त्वा प्रातः स्नेहं भोजयेत् । एनं च
४पाययेत् । शिरश्चास्य ५शृतेनैव स्नेहेनावसिञ्चेत् । गिरिकर्णिकामूल६पिप्पलीसै-
न्धवैः पिष्टैर्मधुसंयुक्तैरञ्जयेत् ॥
तत्र श्लोकः—
विधिना नेत्रमुञ्जे तु क्रियाभिः समुपाचरेत् ।
क्षिप्रं प्रमुच्यते रोगात्प्रकृतिस्थश्च जायते ॥
इति मुञ्जः ॥
अथ यदा गजनयनमुपहतमतीव कफपवनपित्तानामन्यतमेन दोषेण सर्वैर्वा
विविधवर्णैः शबलैर्वा सितासितनीलपीतरक्तारुणैर्वा कृमिभिश्च्छ्रितम्, तदा 'मुञ्ज-
जाल' इत्युच्यते ॥
† 'दन्तोपान्तं' इति भवेत् । * धनुराकारमध्यस्थः पाठः कपुस्तके न ।
१ क. °द्धूतमा° । २ क. रक्तसि° ।