सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 167, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 167

१४८ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
तत्र श्लोकौ—
असाध्यः शोणितश्रा(स्रा)वः पूयं वा श्र(स्र)वते यदि ।
न तत्र कुर्याद्भैषज्यं तत्र सिद्धिर्न विद्यते ॥
विपरीते तु कर्तव्या क्रिया गजहितैषिणा ।
यथोक्तौषधकल्पेन सोपचारः प्रयत्नतः ॥
इत्यक्षिपाकः ॥
स्निग्धमधुरघनगुरुशिशिरलवणाम्लातिभोजनाद्व्यायामादानूपतृणकवलकु-
वलभक्षणाच्च प्रवृद्धः श्लेष्मा *मारुतोद्भूतश्चक्षुरापन्नः श्वेतपटलत्वाय कल्पते । तं
'पटलाक्षम्' इति विद्यात् ॥
तस्योपक्रमम्—त्रिफलात्रिकटुकलोध्रैलवालुकैः ससैन्धवैर्मधुमिश्रैरञ्जयेत् ।
इङ्गुदामन्तककतकफलमनःशिलासमुद्रफेनशङ्खनाभिसमुद्रमण्डूकीविद्रुमताम्रक-
नकरजतमणिभिरञ्जनम् । उत्सन्नदृढप्ररूढपटलस्य चास्य सैन्धवलवणचूर्णै-
र्लेखनम् । तेनासिद्धौ¹ वर्त्मोद्धृत्य बिडिशैर्यथावच्छस्त्रेण पटलमथैनं छेदयेत् ।
तत्र श्लोकौ—
विवर्त्य नेत्रे नागस्य पूर्वं सम्यग्वितानयेत् ।
एनं सामुद्रयन्त्रैस्तं बिडिशैश्च ततो लिखेत् ॥
पूरयेन्मधुसर्पिर्भ्यामथैनं वस्त्रसंवृतम् ।
सप्तरात्रस्थितं² चाक्षि पूरयेदञ्जयेत्ततः ॥
इति पटलाक्षः ॥
अथाभिघातादूर्ध्वं तिर्यग्वा राजिर्दण्डाकृतिर्नयनमावृत्य तिष्ठति । तमन्ये
'दण्डाक्षम्' आहुः । 'नैळिका(क्ष)म्'³ इत्यपरे ॥
तस्यपूर्ववद्द्विवर्त्य⁴ नयने बिडिशेनोत्क्षिप्य शलाकया विद्ध्वाऽस्त्रेणापहरेत् ।
पञ्चमूलोर्निष्क्वाथेन मधुरगणविपकेन पयसा च घृतं पक्त्वा नस्यकर्म तर्पणं
चास्य कुर्यात् । समुद्रफेनशङ्खसैन्धवसर्जनिर्यासैर्मधुसर्पिर्युक्तैरञ्जनं कुर्यात् ॥
तत्र श्लोकः—
अञ्जनानि यथोक्तानि तर्पणोलेपनानि च ।
अवस्थामथ विज्ञाय तत्र कर्म समाचरेत् ॥
इति दण्डाक्षः ॥

  • 'मारुतोद्धूतः' इति भवेत् ।
    १ क. तेन सिद्धौ । २ ख. ॰रात्रिस्यि° । ३ ख. नीलकाचम् । ४ क.
    ॰द्विवृत्य न° । ५ क. ॰गालोकना° ।